SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 301 15 -३८.४] ३८ प्रशान्तरुतसागरवती। २२९ विपुलविषयज्ञानावभासप्रतिलाभयोगेन । तेषां च तथागतानां प्रतिचित्तक्षणं प्रथमचित्तोत्पादमादाय यावत्सद्धर्मान्तर्धानं सर्वमवतरामि ॥ यत्पुनरेवं वदसि-कियच्चिरप्रतिलब्धस्त्वयायं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्ष इति । यन्मया विबुद्धक्षेत्रपरमाणुरजःसमानां बुद्धकल्पानां परेण कनकविमलप्रभायां लोकधातौ पुण्यप्रदीपसंपत्समन्तकेतुप्रभा बोधिवृक्षदेवता अभूत् , तया । अवैवर्त्यधर्मधातुनिर्घोषस्य तथागतस्य धर्मदेशनां श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तान् विबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा इह सहायां लोकधातावुपपद्य क्रकुच्छन्दप्रमुखाः शाक्यमुनिपर्यवसाना भद्रकल्पिकास्तथागता आरागिताः। अनागतांश्च सर्वानारागयिष्यामि । यथेह लोकधातौ, तथा सर्वलोकधातुष्वनागतान् बुद्धवंशानारागयिष्यामि, पूजयिष्यामि । अद्यापि हि कुलपुत्र सा कनकविमलप्रभा लोकधातु- 10 स्तिष्ठति अच्छिन्नबुद्धवंशः। तस्मात्तर्हि कुलपुत्र इह नये महता बोधिसत्त्वविक्रमेण प्रयोक्तव्यम् ॥ अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता तस्यां वेलायामेतमेव विपुलप्रीतिवेग- संभवचित्तक्षणव्यूह बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत शणु सूधना वचनमेतु ममा __ यथयं विमोक्ष प्रतिलब्धु शुभम् । श्रुत्वा च प्रीतिबल संजनिया एतं विमोक्षनयमोतरहि ॥ १ ॥ बहु कल्पसागर पुरा चरिता चित्ताशयं स्वकु विशोधयति । अधिमुक्तिवेग विपुलां जनिया सर्वज्ञज्ञाननगराभिमुखम् ॥ २ ॥ श्रुत्वा त्रियध्वपरमा सुगता नधिमुक्ति तेषु विपुलां जनिय । सर्वैः सुखैः सपरिवार मया ते उपस्थिताः सबहुकल्पशतान् ॥ ३ ॥ दृष्ट्वा मया पुरिमकाः सुगताः संपूजिता जनहिताय चरन् । धर्मश्च मे निरुपमोऽयु श्रुतः प्रीतिबलं विपुलं संजनिया ॥४॥ 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy