________________
S200
२२८ गण्डव्यूहसूत्रम्।
[३८.०सर्वधर्मधातुदिक्समुद्रान्तर्गतेषु क्षेत्रसमुद्रेषु सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वसत्त्वप्रसरेषु नानागत्युपपन्नेषु सत्त्वाशयवशेन नानासंज्ञागतैर्धर्मचक्र प्रवर्तयन्ति, तं सर्व संधारयामि, प्रतिपद्ये, निध्यायामि । सर्वार्थपदव्यञ्जनोगहवेगविक्रमया धारण्या उद्लामि सर्वधर्ममण्डलविशुद्धिगर्भानुगमया प्रज्ञया परिशोधयामि । सर्वधर्मसागरप्रविचयाभिज्ञया गत्यानु5 गच्छामि । त्र्यध्वविपुलया बुद्ध्या स्फरामि । तथागतसमतानुगामिन्या प्रज्ञया सामीकरोमि ।
सर्वधर्मनयानभिनिहरामि । सर्वधर्ममेघेषु सूत्रान्तमेघानभिनिर्हरामि । सर्वसूत्रान्तमेधेषु धर्मसमुद्रान् परिसंस्थापयामि । सर्वधर्मसमुद्रेषु धर्मपरिवर्तान् समवसरामि । सर्वधर्मपरिवर्तेषु धर्ममेघान् संजाने । सर्वधर्ममेघेषु धर्मोर्मीन् संजनयामि । सर्वधर्मोर्मिषु धर्मप्रीतिवेगसागरान् प्रतिलभे । सर्वधर्मप्रीतिवेगसागरेषु भूमिप्रतिलम्भवेगानभिनिर्हरामि । सर्वभूमिवेगेषु समाधि10 समुद्रवेगानभिनिर्हरामि । सर्वसमाधिसमुद्रमेघेषु बुद्धदर्शनसमुद्रान् प्रतिलभे । सर्वबुद्धदर्शन
समुद्रेष्ववभाससमुद्रान् प्रतिलभे । सर्वावभाससमुद्रेषु त्र्यध्वज्ञानमण्डलभूमीः परिसंस्थापयामि अनन्तमध्यदिक्सागरस्फरणयोगेन, अप्रमेयतथागतपूर्वान्तचर्यासमुद्रावतरणयोगेन, अप्रमेयतथागतपूर्वयोगसमुद्रज्ञानावभासयोगेन, अप्रमेयतथागतज्ञानालोकप्रतिलम्भयोगेन, अप्रमेय
तथागतशीलमण्डलपरिशुद्ध्यवभासयोगेन, अप्रमेयतथागतक्षान्तिभूमिपरिशोधनयोगेन, अप्रमेय15 तथागतमहावीर्यवेगविवर्धनविक्रमज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतध्यानमण्डल
ध्यानागमसमुद्रपरिशुद्धिप्रयोगावभासप्रतिलम्भयोगेन, अप्रमेयतथागतप्रज्ञापारमितानयसागरपरिशुद्धिविज्ञल्यवभासयोगेन, अप्रमेयतथागतोपायकौशल्यपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतप्रणिधानपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतपुण्यज्ञानबलपारमिता
संवर्धनसंवसनज्ञानप्रतिलम्भयोगेन, अप्रमेयतथागतज्ञानपारमितानयसागरविचारप्रलम्भयोगेन, 20 अप्रमेयतथागतपूर्ववोधिसत्त्वभूम्याक्रमणज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतभूम्याक्रमणसंधिविकुर्वितकल्पसागरसंवसनयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूमिमण्डलाक्रमणयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिसंवसनयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिपरिशोधनयोगेन, अप्रमेयतथागतज्ञानसागरविचारणयोगेन, अप्रमेयतथागतज्ञानावभासप्रतिलाभयोगेन,
अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धदर्शनानुबन्धविज्ञप्तियोगेन, अप्रमेयतथागतबोधिसत्त्व25 भूताशेषपूर्वबुद्धसमुद्रदर्शनकल्पसमुद्रसंवासयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूताशेषक्षेत्र
समुद्रस्फरणकायाभिनित्रज्ञानावभासप्रतिलाभयोगेन,अप्रमेयतथागतविपुलपूर्वबोधिसत्त्वचर्यानवशेषधर्मधातुस्फरणयोगेन,अप्रमेयतथागतपूर्वबोधिसत्त्वचर्यानानोपायसुखसर्वसत्त्वपरिपाचनविनयसंदर्शनयोगेन, अप्रमेयतथागतसर्वदिक्समुद्रानवशेषप्रभाप्रसरस्फरणयोगेन, अप्रमेयतथागतसत्त्वाभिमुखविकुर्वितसंदर्शनयोगेन, अप्रमेयतथागतभूम्याक्रमणज्ञानावभासयोगेन, अप्रमेयतथागताभिसंबोधिविकुर्वणज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतधर्मचक्रप्रवर्तनसर्वधर्ममेघानवशेषसंप्रतीच्छनसंधारणयोगेन, अप्रमेयतथागतलक्षणसमुद्रविज्ञप्तिज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतकायसमुदसमुदाचारविज्ञप्त्यवभासप्रतिलाभयोगेन, अप्रमेयतथागत
8300