________________
B 120
-३८.०] ३८ प्रशान्तरुतसागरवती।
२२७ मण्डे धर्मविकुर्वितवेगध्वजश्रीर्नाम तथागत आरागितः । तस्य मे सहदर्शनेन त्र्यध्वतथागतसंप्रस्थानावभासगर्भो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे धर्मप्रदीपविक्रमज्ञानसिंहो नाम तथागत आरागितः । तस्य मे सहदर्शनेन सर्वलोकाप्रतिहतज्ञानचक्रप्रभतेजो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानवलपर्वततेजो नाम तथागत आरागितः। तस्य मे सहदर्शनेन त्र्यध्वसर्वसत्त्वचर्येन्द्रियप्रभासो नाम समाधिः । प्रतिलब्धः । इति हि कुलपुत्र तस्मिन् समये मया कनकविमलप्रभे लोकधातौ तस्मिन् समन्तावभासध्वजकल्पे दशबुद्धक्षेत्रपरमाणुरजःसमाः तथागता आरागिताः । केचिद्देवेन्द्रभूतया केचिन्नागेन्द्रभूतया केचिद्यक्षेन्द्रभूतया केचिद्गन्धर्वेन्द्रभूतया केचिदसुरेन्द्रभूतया केचिद्गरुडेन्द्रभूतया केचित्किन्नरेन्द्रभूतया केचिन्महोरगेन्द्रभूतया केचिन्मनुष्येन्द्रभूतया केचिद्ब्रह्मेन्द्रभूतया केचिद्देवभूतया केचिन्मनुष्यभूतया केचिस्त्रीभूतया केचित्पुरुषभूतया 10 केचिद्दारकभूतया केचिद्दारिकाभूतया आरागिताः । सर्वे च मे तथागताः पूजिता यथासंप्राप्तैः पूजापरिष्कारैः । सर्वे च ते तथागता उपस्थिताः । सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता ॥
सा अहं ततश्श्युत्वा तस्मिन्नेव लोकधातौ वुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् वोधि- सत्त्वचयाँ चरित्वा ततश्श्युत्वा इह कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे अस्मिन् सहा-15 लोकधातावुपपन्ना । तया मे भगवान् क्रकुच्छन्दस्तथागत आरागितः । तस्य च मे सहदर्शनेन सर्वान्धकारविरजप्रतिभासो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं कनकमुनिस्तथागत आरागितः। तस्य च मे सहदर्शनेन सर्वक्षेत्रसागरावभासानुगतस्फरणो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं काश्यपस्तथागतः आरागितः । तस्य च मे सहदर्शनेन सर्वसत्त्वमन्त्रसमुद्रनिगर्जनखरनिर्घोषो नाम समाधिः प्रतिलब्धः । तस्यानन्तरमयं भगवान् 20 वैरोचनस्तथागत आरागितः । तद्बोधिमण्डे तथागताभिसंबोधिविकुर्वितमुखसमुद्रान् प्रतिचित्तक्षणे संदर्शयमानान् दृष्ट्वा मया एष विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भाद्दशबुद्धक्षेत्रानभिलाप्यानभिलाप्यपरमाणुरजःसमान् सर्वधर्मधातुनयसमुद्रानवतीर्णा । तेषु च सर्वधर्मधातुनयसमुद्रान्तर्गतेषु सर्वबुद्धक्षेत्रेषु यानि सर्वपरमाणुरजांसि, तेषु एकैकस्मिन् परमाणुरजसि दशानभिलाप्यबुद्धक्षेत्रपरमाणुरज:- 25 समानि बुद्धक्षेत्राण्यवतीर्य पश्यामि । तेषु च सर्वक्षेत्रेष्वेककस्मिन् बुद्धक्षेत्रे भगवन्तं वैरोचनं बोधिमण्डवरगतं प्रतिचित्तक्षणमभिसंबोधिविकुर्वितं संदर्शयमानानेकैकेन च अभिसंबोधिविकुर्वितेन सर्वधर्मधातुनयसागरान् स्फरन्तं पश्यामि । तेषां च सर्वतथागतानामेकैकस्य च तथागतस्य पादमूलगतमात्मानं संजाने । ये च तेषु लोकधातुषु ते तथागता बोधिमण्डगता धर्म देशयन्ति, तं सर्व शृणोमि । ये च तेषां सर्वतथागतानां निर्माणसमुद्राः 30 सर्वरोमविवरेभ्यो निश्चर्य धर्ममेघसमुद्रान् निगर्जमानान् नानाविकुर्वितानि संदर्शयमानान्
8 208
१B ततो च्युता.