________________
२२६
8976
गण्डव्यूहसूत्रम् ।
[३८.०महावितानधर्मः । प्रणिधानं बोधिसत्त्वस्य सर्वक्षेत्रसमुद्रप्रसृतमपरान्तकोटीगतकल्पसर्वक्षेत्रबोधिसत्त्वचर्यावतरणतायै महावितानधर्मः । बलं वोधिसत्त्वस्य सर्वधर्मधातुनयसमुद्रप्रसृतं सर्वक्षेत्रेषु प्रतिक्षणमभिसंबोधिदर्शनाप्रतिप्रस्रब्धये महावितानधर्मः । ज्ञानं बोधिसत्त्वस्य
तथागतबलप्रसृतं त्र्यध्वसर्वधर्मानावरणज्ञानविज्ञप्तये महावितानधर्मः । इमे कुलपुत्र दश 5 बोधिसत्त्वानां महासंभारा महावितानधर्माः, येषु प्रतिष्ठितानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते, विशुध्यति संभवति संवर्धते समुदेति प्रादुर्भवति संवर्तते सारीभवति विपुलीभवति परिनिष्पद्यते संतिष्ठते ॥
___ सुधन आह-कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ ? सा अवोचत्-अस्ति कुलपुत्र अस्य कुसुमतलगर्भव्यूहालंकारस्य लोकधातुसमुद्रस्य पूर्वेण 10 दशलोकधातुसमुद्रसहस्राण्यतिक्रम्य परेण सर्वरत्नविमलप्रभाव्यूहो नाम लोकधातुसमुद्रः। तस्य
मध्ये सर्वतथागतप्रभाप्रणिधिनि?षो नाम लोकधातुवंशः । तस्य मध्ये कनकविमलप्रभाव्यूहो नाम लोकधातुः सर्वरत्नमेघविचित्र अधोलोकधातौ सर्वरत्नहारजालसागरप्रतिष्ठितः सर्वगन्धवज्रमणिराजव्यूहशरीरः कूटागारपरिणाहसंस्थानो विशुद्धोऽसंक्लिष्टः दिव्यविमानभवनमेघसंछादितः। तत्र समन्तावभासध्वजो नाम कल्पः। तस्मिन् लोकधातौ सर्वरत्नगर्भविचित्राभो 15 नाम बोधिमण्डोऽभूत् । तत्र भगवानविवर्त्यधर्मधातुनिर्घोषो नाम तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । अहं च तेन कालेन तेन समयेन तस्मिन् वोधिवृक्षे पुण्यप्रदीपसंपत्केतुप्रभा नाम बोधिमण्डदेवता अभूवम् । तया मे तस्य तथागतस्य अभिसंबोधिविकुर्वितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । तस्य च मे तथागतस्य सहदर्शनेन
तथागतगुणसमुद्रावभासो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तस्मिन्नेव लोकधातौ 20 समन्तसंपूर्णश्रीगर्भायां राजधान्यां तत्रैव बोधिमण्डे धर्मद्रुमपर्वततेजो नाम तथागतोऽभिसंबुद्धः । अहं च ततश्श्युत्वा तत्रैव बोधिमण्डे ज्ञानश्रीपुण्यप्रभा नाम रात्रिदेवता अभूवम् । तया मे तस्य भगवतो धर्मद्रुमपर्वततेजस्तथागतस्य धर्मचक्रप्रवर्तनविकुर्वितं दृष्ट्वा सर्वजगसंदर्शनसमतावभासविषयो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे सर्वधर्मसागरनिर्घोषराजो नाम तथागत आरागितः । तस्य मे सहदर्शनेन सर्वधर्म28 भूमिसंवर्धनस्थानो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे रत्नरश्मिप्रदीपध्वजराजो माम तथागत आरागितः । तस्य मे सहदर्शनेन समन्तवृक्षप्रभमेघो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे गुणसुमेरुप्रभतेजो नाम तथागत आरागितः । तस्य मे सहदर्शनेन बुद्धसमुद्रावभासो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे धर्ममेघनिर्घोषराजो नाम तथागत आरागितः । तस्य मे 30 सहदर्शनेन धर्मसागरप्रदीपो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानोल्कावभासराजो नाम तथागत आरागितो देवकन्याभूतया । तस्य मे सहदर्शनेन सर्वसत्त्वदुःखप्रशमनप्रतिभासप्रदीपो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधि
8297