________________
-३८.० ३८ प्रशान्तस्तसागरवती !
२२५ एष विमोक्षः सर्वज्ञताचित्तोत्पादासंभिन्नत्वात् । अपर्यन्त एष विमोक्षो बोधिसत्त्वचक्षुर्विज्ञेयत्वात् । अतुल एष विमोक्षोऽसंभिन्नधर्मधातुनयतलस्फरणत्वात् । समन्तमुख एष विमोक्ष एकारम्बणसर्वविकुर्वितसमवसरणत्वात् । अमोघ एष विमोक्षः सर्वधर्मशरीराद्वयसमुदाचारत्वात् । अनुत्पन्न एष विमोक्षो मायोपमसमुदाचारत्वात् । प्रतिभासोपम एष विमोक्षो सर्वज्ञताप्रणिधानप्रतिभाससंभूतत्वात् । निर्मितोपम एष विमोक्षो बोधिसत्त्वचर्यासुनिर्मितत्वात् । महा- । पृथिवीसदृश एष विमोक्षः सर्वजगत्प्रतिशरणत्वात् । अप्स्कन्धोपम एप विमोक्षः सर्वजगन्महाकरुणाभिष्यन्दनतया । तेजःस्कन्धोपम एप विमोक्षः सर्वसत्त्वतृष्णास्नेहपर्यादानतया । वायुस्कन्धोपम एप विमोक्षः सर्वसत्त्वसर्वज्ञताप्रतिष्ठापनतया । सागरोपम एष विमोक्षः सर्वजगद्गुणालंकारालयत्वात् । मेरुपर्वतराजोपम एप विमोक्षः सर्वधर्मज्ञानरत्नसमुद्राभ्युद्गतत्वात्। व्यूहनयवातमण्डलसदृश एष विमोक्षः सर्वधर्मविमोक्षविधिव्यूहनतया । गगनोपम एष 10 8 295 विमोक्षस्त्रध्वप्राप्तसर्वतथागतविकुर्वितावकाशत्वात् । महामेघोपम एष विमोक्षः सर्वसत्त्वाभिमुखधर्ममेघाभिप्रवर्पणत्वात् । आदित्योपम एष विमोक्षः सर्वसत्त्वाज्ञानतमोन्धकारविधमनतया। चन्द्रोपम एष विमोक्षो महापुण्यज्ञानसमुद्रसुसमार्जितत्वात् । तथागतोपम एष विमोक्षः सर्वत्रानुगतत्वात् । खच्छायोपम एष विमोक्षः कर्मधर्भसुनिर्मितत्वात् । प्रतिश्रुत्कोपम एष विमोक्षो यथाधिमुक्तसर्वधर्मनि?षनिगर्जनतया । प्रतिभासोपम एष विमोक्षो यथाशयसर्व- 13 सत्त्वविज्ञापनतयों । द्रुमराजोपम एष विमोक्षः सर्वबुद्धविकुर्वितसंकुसुमितत्वात् । वज्रोपम एष विमोक्षोऽभेद्यधर्मत्वात् । चिन्ताराजमणिरत्नोपम एष विमोक्षोऽनन्तमध्यविकुर्वितसमुद्राभिनिर्हरणतया। विमलगर्भमणिराजोपम एष विमोक्षः सर्वत्र्यध्वतथागतविकुर्वितविज्ञप्त्यनावरणतया । नन्दिध्वजमणिरत्नोपम एष विमोक्षः सर्वबुद्धधर्मचक्रसमतानिर्घोषत्वात् । एवमपरिमाणोपमोपन्यासानुगमनिर्देशो वतायं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्व- 20 विमोक्षः॥
अथ खल्ल सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवती रात्रिदेवतामेतदवोचत्-कथं प्रतिपद्यमानस्य देवते बोधिसत्त्वस्य अयमेवंरूपो विमोक्षः संपद्यते ? आह-दशेमे कुलपुत्र बोधिसत्त्वानां महासंभारा महावितानधर्मा महाविस्फारा महाद्युतयो महावभासा महाप्रभावभासा महाभागा महाविभागा महासंभवा महाविभवाः, येषु प्रतिपद्यमानानां बोधिसत्त्वाना- 25 मयमेवंरूपो विमोक्षः संपद्यते । कतमे दश ? यदुत दानं बोधिसत्त्वस्य यथाशयसर्वसत्त्वसमुद्रसंतोषणप्रसृतं महावितानधर्मः । शीलं बोधिसत्त्वस्य सर्वतथागतगुणसमुद्रावतारप्रतिपत्तिप्रसृतं महावितानधर्मः । क्षान्तिर्बोधिसत्त्वस्य सर्वधर्मखभावनिध्यप्तिप्रसृतं महावितानधर्मः । वीर्य बोधिसत्त्वस्य सर्वज्ञतासमारम्भाविवर्ल्सप्रसृतं महावितानधर्मः। ध्यानं बोधिसत्त्वस्य सर्वसत्त्वक्लेशप्रतापप्रशमनप्रसृतं महावितानधर्मः । प्रज्ञा बोधिसत्त्वस्य सर्वधर्म-30 समुद्रप्रज्ञाप्रसृता महावितानधर्मः । उपायो बोधिसत्त्वस्य सर्वसत्त्वसमुद्रपरिपाकविनयप्रस्तो
१ B°विमान for °विमोक्ष'. २ Bom. महापुण्य...विज्ञापनतया.
B 119
गण्ड. २९