________________
२२४ गण्डव्यूहसूत्रम् ।
[३८.०पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानसुरेन्द्रकायमेघान्निश्चरमाणान् सासुरेन्द्रविकुवितानसुरेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा सर्वधर्मधातुगतानां सत्त्वानां
धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥ 8 293 5 पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्मा
द्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् गरुडेन्द्रकायमेघान्निश्चरमाणान् सगरुडेन्द्रविकुर्वितान् गरुडेन्द्रकायसंदर्शनवैनयिकानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कार्य व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्मा10 द्रोमकूपादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् किनरेन्द्रकायमेघान् निश्चरमाणान् सकिन्नरेन्द्रविकुर्वितान् किनरेन्द्रकायसंदर्शनविनयानां सत्वानां धर्मधातुगतानां सत्त्वानामभिमुख स्थित्वा धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कार्य व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् महोरगेन्द्रकायमेघान् निश्चरमाणान् समहोर15 गेन्द्रविकुर्वितान् महोरगेन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् मनुष्येन्द्रकायमेघानिश्चरतः समनुष्येन्द्रविकुर्वितान् मनुष्येन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा 20 धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् ब्रह्मेन्द्रकायमेघान्निश्चरतः सब्रह्मेन्द्रविकुर्वितान् ब्रह्मेन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा ब्रह्मखररुतनिर्घोषेण
धर्म देशयमानान् दृष्ट्वा उदारान् धर्मधातुविपुलांश्चित्तक्षणे चित्तक्षणे सर्वज्ञतासहगतान् 25 महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
न च प्रतिलब्धपूर्वान् प्रतिलभे । नाधिगतपूर्वानधिगच्छामि । नावतीर्णपूर्वानवतरामि । न स्फुटपूर्वान् स्फरामि । न दृष्टपूर्वान् पश्यामि । न च श्रुतपूर्वान् शृणोमि । तत्कस्य हेतोः? किंचापि धर्मखभावलक्षणपरिज्ञेयाः सर्वधर्माः, एकलक्षणास्त्रयध्वपथावताराः पुनरमन्तमध्यनिर्देशाः सर्वधर्माः ॥ 30 अयमस्य कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षनयसमुद्रस्यावभासः । अपि तु अनन्तमध्यः खल्वेष विमोक्षो धर्मधातुनयसमुद्रावतारणत्वात् । अक्षय
8294