________________
-३८.०] ३८ प्रशान्तरुतसागरवती।
२२३ पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं संर्वबुद्धक्षेत्रपरमाणुरजःसमवर्णान् नानागन्धरश्मिमेघान्निश्चरमाणान् सर्वबुद्धक्षेत्रस्फरणान् दृष्ट्वा उदारान् प्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माल्लक्षणात्सर्ववुद्धक्षेत्रपरमाणुरजःसमान् लक्षणमण्डितांस्तथागतविग्रहमेघान् निश्वरमाणान् । सर्वलोकधातुसमुद्रस्फरणान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्मादनुव्यञ्जनात्प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमानशीत्यनुव्यञ्जनोज्ज्वलांस्तथागतनिर्मितकायमेघान् निश्चरमाणान् सर्वबुद्धक्षेत्रसमुद्रस्फरणान् सर्वतथागतधर्मचक्रनिर्घोषनिगर्जनान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
10 ___ पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् वुद्धविकुर्वितमेघान् सप्रथमचित्तोत्पादान् सषट्पारमितामार्गविशुद्धिव्यूहान् सबोधिसत्त्वभूम्याक्रमणविकुर्वितान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायात्प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभि-15_5 992 लाप्यबुद्धक्षेत्रपरमाणुरजःसमान् देवेन्द्रकायमेघान् निश्चरमाणान् सर्वलोकधातुस्फरणान् सदेवेन्द्रविकुर्वितान् देवेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायात् प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान्नागेन्द्रकायमेघान् सनागेन्द्रविकुर्वितान् नागेन्द्रकायसंदर्शन-20 वैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभामि ॥
पुनरपरं कुलपुत्र तस्य भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् यक्षेन्द्रकायमेघान् सयक्षेन्द्रविकुर्वितान् सर्वधर्मधातुस्फरणान् यक्षेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा 25 धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कार्य व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्मा- Bu8 द्रोमविवरादनमिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् गन्धर्वेन्द्रकायमेघान् सगन्धर्वेन्द्रविकुर्वितान् सर्वधर्मधातुस्फरणान् गन्धर्वेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्म देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
१B om. पुनरपर...प्रतिलभे..