SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ S 290 B 117 S 291 गण्डव्यूह सूत्रम् । [ ३८.० तथागतवैनयिकानां सत्त्वानामनुत्पादपद संप्रकाशनतायै धर्मं देशयामि । स्कन्धनिकेताशयानां सत्त्वानामनालयधर्मगोचरविहारतायै धर्म देशयामि । संलीनाशयानां सत्त्वानां मार्गव्यूह विशेष - संप्रकाशनतायै धर्मं देशयामि । अधिमानप्राप्तानां सत्त्वानां सर्वधर्मसमताक्षान्ति संप्रकाशयामि । मायाशाठ्यविषयाशयानां सत्त्वानां बोधिसत्त्वाशयपरिशुद्धिं संप्रकाशयामि ॥ I एवमहं कुलपुत्र सर्वसत्त्वान् धर्मदानेन संगृह्य सर्वदुःखदुर्गतिपथेभ्यो विनिवर्तयमाना देवमनुष्यसंपत्तिसुखानि संदर्शयमाना धातुकादुच्चालयमाना सर्वज्ञतायां प्रतिष्ठापयमाना विविधैरुपायमुखैः परिपाचयमाना महाप्रीतिवेगसमुद्रावभासप्रतिलब्धा मोदामि, प्रमोदामि, आत्तमनस्का भवामि । अपि तु खलु पुनरहं कुलपुत्र सर्वदिग्विदिक्षु बोधिसत्त्वपर्पन्मण्डलसमुद्रानवलोकयमाना नानाप्रणिधान चरितानां बोधिसत्त्वानां नानाकायविशुद्धानां नाना10 प्रभामण्डलव्यूहानामनन्तवर्णरश्मिप्रभामण्डलं प्रमुञ्चमानानां नानासर्वज्ञतानयसागरप्रसृतज्ञानालोकानां नानासमाधिसमुद्रावतीर्णानां नानाविकुर्वितविषयाणां नानाखराङ्गरुतसागरनिर्घोषाणां नानाभरणविभूपितशरीराणां नानातथागतनयावतीर्णानां नानाक्षेत्रसमुद्र प्रसरप्रसृतशरीराणां नानाबुद्धसागरावतीर्णानां नानाप्रतिसंविन्नयसागरावतीर्णानां नानातथागतविमोक्षज्ञानविषयावभासितानां नानाज्ञानसागरावभासप्रतिलब्धानां नानासमाधिसमुद्रनय15 विहारिणां नानाधर्मविमोक्षविनयविक्रीडितविषयाणां नानासर्वज्ञताद्वाराभिमुखानां नानाधर्मधातुगगनव्यूहानां नानाव्यूहमेघगगनस्फरणानां नानापर्षन्मण्डलसमुद्रव्यवलोकयितॄणां नानाप्रीतित्रेगलोकधातुसंनिपतितानां नानाबुद्धक्षेत्रप्रसरानुसृतानां नानादिक्सागरसंनिपतितानां तथागतसंप्रेषितानां नानातथागतपादमूलोच्चलितानां नानाबोधिसत्त्वगणपरिवाराणां नानाव्यूह मेघप्रवर्षणानां नानातथागतनयावतीणीनां नानातथागतधर्मसागरविचाराणां नाना20 ज्ञानसमुद्रावतीर्णानां नानाव्यूहगर्भावभासननिषण्णानां नानाप्रीतिवेगसमुद्रान् संजनयामि । ते नानाप्रीतिवेगसमुद्रसंजातास्तथागतपर्षन्मण्डलसमुद्रानवतरन्ति पश्यन्ति विचारयन्ति । तेषां तथागतबलाप्रमाणतामनुविचिन्तयतां महाप्रीतिवेगसमुद्राः संभवन्ति ॥ 5 २२२ अपि तु खलु पुनरहं कुलपुत्र भगवतो वैरोचनस्य लक्षणप्रतिमण्डितामचिन्त्यां रूपकायपरिशुद्धिमवतरमाणा लभामि उदारप्रीतिप्रसादप्रामोद्यम् । प्रतिचित्तक्षणमनन्त25 मध्यवर्णसमुद्रसंदर्शन धर्मधातुविपुलं प्रभासमण्डलमवलोकयमाना चित्तक्षणे चित्तक्षणे महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥ 30 पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्माद्रोमविवरादनन्तमध्यबुद्धक्षेत्रपरमाणुरजःसमान् महारश्मिसमुद्रान् निश्चरमाणान् एकैकां च रश्मिमनन्तबुद्धक्षेत्रपरमाणुरजः समरश्मिसमुद्रपरिवारां सर्वबुद्धधर्मधातुस्फरणां सर्वसत्त्वदुःखानि प्रशमयमानां दृष्ट्वा चित्तक्षणे चित्तक्षणे महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥ पुनरपरं कुलपुत्र भगवतो वैरोचनस्य उत्तमाङ्गादंसकूटाभ्यां च प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वरत्नार्चिः पर्वतमेधान् निश्चरमाणान् सर्वधर्मधातुस्फरणान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे ॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy