________________
-३८.०] ३८ प्रशान्तरुतसागरवती।
२२१ सत्त्वानां सर्वसंसाररतितृष्णाप्रहाणाय सर्वसत्त्वसमचित्ततायै महाकरुणाप्रतिलाभाय धर्म देशयामि । अन्तरापणमध्यगतानां सत्त्वानामार्यसंघतथागतदर्शनसमवधानसमवसरणतायै धर्मं देशयामि । भोगमदमत्तानां सत्त्वानां क्षान्तिपारमितापरिपूरणाय धर्म देशयामि । नृत्तगीतवाद्याभिरतानां सत्त्वानां धर्मारामरत्यै धर्मं देशयामि । विषयरतिगृद्धानां सत्त्वानां तथागतविषयसमवसरणतायै धर्म देशयामि । क्रोधाविष्टानां सत्त्वानां क्षान्तिपारमिता- 5 प्रतिष्ठापनतायै धर्म देशयामि । कुसीदानां सत्त्वानां वीर्यपारमितापरिशुद्धये धर्मं देशयामि । विभ्रान्तचित्तानां सत्त्वानां तथागतध्यानपारमिताप्रतिलाभाय धर्म देशयामि । दृष्टिकृतगहनप्रस्कनानां सत्त्वानामविद्यान्धकारपतितानां दृष्टिकृतगहनाविद्यान्धकारविनिवर्तनतायै धर्म देशयामि । दुष्प्रज्ञानां सत्त्वानां प्रज्ञापारमिताप्रतिलाभाय धर्म देशयामि । त्रैधातुकाभिनिविष्टानां सत्त्वानां संसारदुःखनिःसरणाय धर्म देशयामि । हीनाधिमुक्तानां सत्त्वानां 10 तथागतबोधिप्रणिधानपरिपूरये धर्म देशयामि । आत्महितप्रयुक्तानां सत्त्वानां सर्वसत्त्वहितावहनप्रणिधानपरिपूरये धर्म देशयामि । दुर्वलाध्याशयानां सत्त्वानां बोधिसत्त्वबलपारमिताविशुद्धये धर्म देशयामि । अविद्यातमोन्धकारचेतसां सत्त्वानां बोधिसत्त्वज्ञानपारमिताविशुद्धये धर्म देशयामि । विरूपकायानां सत्त्वानां तथागतरूपकायविशुद्धये धर्म देशयामि । विसंस्थितशरीराणां सत्त्वानामनुत्तरधर्मकायविशुद्धये धर्म देशयामि । दुर्वर्णानां सत्त्वानां 15 सूक्ष्मतथागतसुवर्णवर्णच्छवितायै काचिलिन्दिकसुखसंस्पर्शशरीरताविशुद्धये धर्मं देशयामि । दुःखितानां सत्त्वानामत्यन्ततथागतसुखप्रतिलाभाय धर्म देशयामि । सुखितानां सत्त्वानां सर्वज्ञतासुखप्रतिलाभाय धर्मं देशयामि । ग्लानानामातुराणां सत्त्वानां प्रतिभासोपमबोधिसत्त्वकायपरिनिष्पत्तये धर्म देशयामि । विचित्ररतिप्रसक्तानां सत्त्वानां बोधिसत्त्वचर्यारतिप्रतिलाभाय धर्म देशयामि । दरिद्राणां सत्त्वानां बोधिसत्त्वधर्मनिधानकोशप्रतिलाभाय धर्म 20 देशयामि । उद्यानगतानां सत्त्वानां बुद्धधर्मपर्येष्ट्यभियोगाहेतुतायै धर्म देशयामि । मार्गगतानां सत्त्वॉनां सर्वज्ञतामार्गप्रतिपत्तये धर्म देशयामि । ग्रामगतानां सत्त्वानां सर्वत्रैधातुकनिःसरणतायै धर्म देशयामि । जनपदप्रदेशगतानां सत्त्वानां श्रावकप्रत्येकबोधिमार्गसमतिकमाय तथागतभूमिप्रतिष्ठापनतायै धर्म देशयामि । नगरगतानां सत्त्वानां धर्मराजनगरावभासनतायै धर्म देशयामि । विदिग्गतानां सत्त्वानां त्र्यध्वसमताज्ञानप्रतिलाभाय धर्म देशयामि । दिग्गतानां सत्त्वानां सर्वधर्मज्ञानाभिज्ञतायै धर्म देशयामि । एकान्तरागचरितानां सत्त्वानामशुभमुखेन सर्वसंसाररतितृष्णाविनिवर्तनतायै धर्म देशयामि । दोषचरितानां सत्त्वानां महामैत्रीनयसागरावतरणतायै धर्म देशयामि । मोहचरितानां सत्त्वानां सर्वधर्ममुखसमुद्रप्रविचयज्ञानाभिज्ञतायै धर्म देशयामि । समभागचरितानां सत्त्वानां सर्वयानप्रणिधाननयसागरवैशेषिकतायै धर्म देशयामि । संसारविषयरत्याशयानां सत्त्वानां संसारविषयरतिविनिवर्तनतायै 30 धर्म देशयामि । सर्वसंसारदुःखस्पृष्टानां सत्त्वानां सर्वसंसारदुःखानुपक्लिष्टतायै धर्म देशयामि ।
१ चित्रान्त. २ S विरूपकानां. ३ S प्रयुक्तानां. ४ Bom. बुद्धधर्म... सत्त्वानां.
8289