SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ३८ प्रशान्तरुतसागरवती । अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजः श्रियो रात्रिदेवतायास्तं सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् अधिमुच्यमानोऽवगाहयमानो विपुलीकुर्वाणः स्फरन् प्रसरन् वशीकुर्वन् अवभासयमानः समवसरन् येन प्रशान्तरुतसागर5 वती रात्रिदेवता तेनोपसंक्रम्य प्रशान्तरुतसागरवत्या रात्रिदेवतायाः पादौ शिरसाभिवन्द्य प्रशान्तरुतसागरवतीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्रशान्तरुतसागरवल्या रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमायें देवते अनुत्तरायां सम्यक्संबोधी संप्रस्थितः । सोऽहं कल्याणमित्रसंनिश्रयेण बोधिसत्त्वचर्यायां शिक्षमाणो बोधिसत्त्वचर्या - मवतरन् बोधिसत्त्वत्चर्यायां प्रतिपद्यमानो बोधिसत्त्वत्चर्यायां प्रतिष्ठितः सर्वज्ञतायां निर्यातु10 मिच्छामि । तद्वदख मे आर्ये देवते कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता सुधनं श्रेष्ठिदारक मेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वं कल्याणमित्रसंनिश्रयेण बोधिसत्त्वचर्यासागरं परिमार्गसि । अहं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी । सुधन आह15 किंकर्मासि देवते, किंविपयासि, किंप्रयोगा किंव्यवचारा ? क एतस्य विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षस्य विषयः ? सा अवोचत् — अहं कुलपुत्र चित्ताशयसागरपरिशुद्धिसमताप्रतिपन्ना सर्वलोकरजोमलविमला भेद्यव्यूहसंप्रतिपन्ना अवैवर्त्याप्रत्युदावर्त्यारम्भचित्ता रत्नपर्वतगुणालंकाराकम्प्यचित्ता अप्रतिष्ठितानालयचित्ता सर्वजगत्परित्राणाभिमुखचित्ता सर्वबुद्धसमुद्रदर्शनावितृप्तचित्ता सर्वबोधिसत्त्वबलाशयविशुद्धचित्ता 20 महाज्ञानावभासव्यूहस्मृतिसागरसंवासचित्ता सर्वसत्त्वशोककान्तारसमतिक्रमणाय प्रतिपन्ना, सर्व सखदुःखदौर्मनस्य विनिवर्तनायाभियुक्ता, सर्वसत्त्वानां नामरूपशब्दगन्धरसस्पर्शसमुदाचारविनिवर्तनाय प्रतिपन्ना, सर्वसत्त्वानां प्रियाप्रियविप्रयोगसंप्रयोगदुःखव्युपशमाय प्रतिपन्ना, सर्वसत्त्वानां विषयप्रत्ययसंभवसंमोहदुःखविनिवर्तनप्रयुक्ता, विनिपतितसर्वसत्त्वप्रतिशरणभूता सर्वसत्त्वसंसारसंवासदुःखनिःसरणसंदर्शनाभियुक्ता, सर्वसत्त्वानां जातिजरामरणशोकपरिदेव25 दुःखदौर्मनस्योपायासविनिवर्तनाय प्रतिपन्ना, सर्वसत्त्वानामनुत्तरतथागतसुखपरिनिष्पत्तये प्रतिपन्ना, सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीगतानां सत्त्वानां सुखोपस्थानेन तुष्टिं विन्दामि, तेषां च धार्मिकीं रक्षावरणगुप्तिं संविदधामि । अनुपूर्वेण च तान् सर्वज्ञतायां परिपाचयामि । यदुत महाभवनविमानगतानां सत्त्वानामनभिरतिं संजनयामि । तानि तानि च दौर्मनस्यानि व्यपनयामि । सर्वाभिनिवेशव्यवच्छेदाय सर्वधर्मस्वभाव परिज्ञायै च 30 धर्मं देशयामि । मातापितृभ्रातृभगिनीज्ञातिसालोहितसमवधानगतानां सत्त्वानां चिरकाल - संजातस्नेहानां बुद्धबोधिसत्त्वसमवधानप्रतिलाभाय धर्म देशयामि । भार्यापुत्रसमवधानगतानां B 116 १ Som, भ्रातृ. S 287 $ 288
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy