SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ३७ समन्तत्राणोजः श्रीः । धर्म रतनदान शिरि गुणचक्रवालशिरि मेघु जिन: । क्षान्तिप्रदीपशिरि तेजवतिवेगप्रभः शमथघोषु जिनः ॥ ५२ ॥ शान्तिध्वजो जगप्रदीप शिरि बुद्धो महाप्रणिधिवेग शिरि । अपराजितध्वजवलो भगवान् ज्ञानार्चिसागरशिरिश्च जिनः ॥ ५३ ॥ धर्मेश्वरो जिन असङ्गमतिर्जगमन्त्रसागरनिर्घोपमतिः । सर्वस्वराङ्गरुतघोषशिरी वशवर्तियज्ञयशयष्टिमतिः ॥ ५४ ॥ दिशदेश आमुखजगो भगवान् सत्त्वाशयैः समशरीरिशिरिः । बुद्ध परार्थसविहारशिरी प्रकृतीशरीरशिरि भद्रजिनः ॥ ५५ ॥ एते जिना प्रमुख तत्र अभूदुपपधि ये जिन प्रदीपकराः । कल्पैः सुमेरुपरमाणुसमैः ये पूजिता जिनसमुद्रनये ॥ ५६ ॥ तैर्बुद्धक्षेत्र परमाणुसमैः कल्पैरुपपधिपु ये केचि जिना: । सर्व पूजित या सुगता एतं विमोक्षनयमोतरिया ॥ ५७ ॥ कल्पाननन्त अद्दु चीर्ण पुरा एतं विमोक्षनयु भावयती । त्वमपि श्रुणित्व प्रतिपद्य लघु प्रतिलप्स्यसे नयमिमं नचिरात् ॥ ५८ ॥ एतमहं कुलपुत्र सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं जानामि । 15 किं मया शक्यमनन्तमध्यबोधिसत्त्वत्चर्यासागरनानाधिमुक्तिसंत्रासानां बोधिसत्त्वानां नानाशयशरीराणां विविधेन्द्रियसागरपरिनिष्पन्नानां विचित्रवोधिसत्त्वप्रणिधानसुप्रतिविद्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥ - ३७.५८ ] २१२ 5 10 गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं ज्योतिर्ध्वजमणिराजप्रतिमण्डितगर्भे पद्मासने निषण्णा दशरात्रिदेवता संख्येयशत- 20 सहस्रपरिवारा । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजः श्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तसत्त्वत्राणोजः श्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य समन्तसत्त्वत्राणोजः श्रियो रात्रिदेवताया अन्तिकात् प्रक्रान्तः ॥ ३५ ॥ S 286
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy