________________
गण्डव्यूहसूत्रम् ।
[३७.३७पद्मोद्गतो नवमु कारुणिको जिनु धर्मधातुकुसुमो दशमः । बुद्धोसमुद्र परिदीपयतो एषा दशा द्वितिय अत्र नये ॥ ३७॥ प्रभकेतुराजमति ज्ञानमति चित्रार्थ इन्द्रशिरि देवमति । जिनु वेगराजमति ज्ञानशिरी अवभासराज प्रभकेतुशिरी ॥ ३८ ॥ विक्रान्तदेवगति नाम जिनो तथ धर्मधातुपदुमो दशमः । एवं नयं विपुल दर्शयतो तृतिया दशा भवति अत्र नये ॥ ३९ ॥ रत्नार्चिपर्वतशिरी भगवांस्तदनन्तरं गुणसमुद्रशिरी । धर्मप्रभो पदुमगर्भशिरी गतिचन्द्रनेत्रनयनः सुगतः ॥ ४० ॥ गन्धप्रभो मणिसुमेरुशिरी गन्धर्वकायु प्रभराजः * * । मणिगर्भराज शिरितेजवती दशमो जिनः प्रशमरूपगतिः ॥ ४१ ॥ तदनन्तरं विपुलबुद्धि जिनो रतनप्रभो गगनमेघशिरी। वरलक्षणः शिरि बभूव जिनो व्रतमण्डलश्च खशरीरप्रभः ॥ ४२ ॥ नारायणव्रत सुमेरुशिरी गुणचक्रवालशिरिराजु जिनः । अपराजितव्रतध्वजो भगवान् द्रुमपर्वतो दशमु तेष जिनः ॥ ४३ ॥ सालेन्द्रराजशिरिंगk जिनो लोकेन्द्रकायप्रतिभासप्रभः ।। अभ्युद्गतप्रभशिरी भगवान् विरजग्रभो धरणितेजशिरी ॥ ४४॥ गम्भीरधर्मगुणराजशिरी जिनु धर्मसागरनि?षमतिः । मेरुध्वजः शिरिप्रभासमतिर्दशमो जिनो रतनराजशिरिः ॥ ४५ ॥ ब्रह्मप्रभो गगनघोष जिनस्तथ धर्मधातुप्रतिभासशिरिः ।
आलोकमण्डलप्रभो भगवान् दशभेदज्ञानप्रभकेतुमतिः ॥ ४६॥ गगनप्रदीप अभिरामशिरी वैरोचनप्रभशिरी सुगतः । पुण्यप्रभासशिरि शान्तशिरी दशमो महाकरुणमेघशिरी ॥ ४७ ॥ तथताप्रभो बलप्रभासमतिः सर्वजगाभिमुखरूप जिनः । अभ्युद्गताभु अभु तत्रं जिनस्तदनन्तरं समशरीरु जिनः ॥ ४८॥ धर्मोद्गतोऽथ स अभूत्सुगतस्तदनन्तरं अनिलवेगशिरी । शूरध्वजो रतनगात्रशिरी दशमस्त्रियध्वप्रतिभासप्रभः ॥ ४९॥ प्रणिधानसागरप्रभासशिरी वज्राशयो गिरिशिरी द्वितियः । तृतीयो जिनो हरिसुमेरुशिरी स्मृतिकेतुराजशिरि धर्ममतिः ॥ ५० ॥ प्रज्ञाप्रदीप प्रभकेतुशिरी तदनन्तरं विपुलबुद्धि जिनः। जिनु धर्मधातुनयज्ञानगतिधर्मः समुद्रमतिज्ञानशिरिः॥ ५१ ॥
8285
15
B115
१B.राजविारी प्रभराजशिरी. २S गात्र for तत्र.