________________
15
-३७.३६] ३७ समन्तसवत्राणोजःश्रीः।
२१७ नटदारिका अभूवम् । सा अहं तस्य तथागतस्य नगरप्रवेशसमये नाटके प्रवृत्ते बुद्धानुभावेन ऊवं गगनतले स्थित्वा गाथासहस्रेण तं तथागतमभिष्टुवन्ती उपसंक्रान्ता । तेन च मे धर्मधातुविद्योतितव्यूहं नाम रश्मिमूर्णकोशादुत्सृज्य सर्वकायोऽत्रभासितः । तया च मे रश्म्या समनन्तरस्पृष्टया धर्मधातुनयावर्तगर्भो नाम विमोक्षः प्रतिलब्धः॥
इति हि कुलपुत्र एतान् प्रमुखान् कृत्वा यानि तत्र मणि चक्रविचित्रप्रतिमण्डित- 5 व्यूहायां लोकधातौ महाप्रभे कल्पे पञ्च बुद्धशतान्युत्पन्नानि, तानि मया सर्वाण्यारागितानि, पूजा च मे तेषां तथागतानां कृता । यश्च मे तैस्तथागतैर्धर्मो देशितः, तं सर्व स्मरामि । एकपदव्यञ्जनमपि मे ततो धर्मनयान्न विप्रमुषितम् । एकैकस्य च मे तथागतस्यान्तिकमुपसंक्रामन्त्या अपरिमाणानां सत्त्वानामर्थः कृतो बुद्धधर्मसंवर्णनतया । एकैकस्य च मे तथागतस्य अन्तिकात् त्र्यध्वज्ञानगर्भधर्मधातुविपुलो नाम धर्मधातुशरीरसागरः सर्वज्ञताविधुदवभासः 10 प्रतिलब्धः सर्वसमन्तभद्रचर्यासंवाससमवसरणः । एतद्यपि मे कुलपुत्र प्रतिचित्तक्षणमनन्तमध्यास्तथागता आभासमागच्छन्ति । सर्वेषां च मे तेषां तथागतानां सहदर्शनात् सर्वज्ञताविद्युदवभासा आशयेऽवक्रान्ता अप्रतिलब्धपूर्वा अदृष्टपूर्वाः । न च समन्तभद्राया बोधिसत्त्वचर्याया उच्चलामि । तत्कस्य हेतोः? अनन्तमध्यनिर्देश एप सर्वज्ञताविधुदवभास. प्रतिलम्भः ॥
अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रिदेवता तस्यां वेलायां तमेव सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना बुद्धाधिष्ठानेन सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत
शृणु सूधना वचनमेतु ममा गम्भीर दुर्दश दुरावगहम् । सर्वत्रियध्वतलभेदनयं धर्माभमण्डलसमन्तप्रभम् ॥ ३० ॥ यथ संभुत प्रथम चित्तु ममा बोधाय बुद्धगुणप्रार्थनया। यथ बोधिविमोक्षु अयु लब्धु मंया एतं शृणोहि प्रविभागनयम् ॥ ३१ ॥ इतु बुद्धक्षेत्रपरमाणुरजःसमकल्पपूर्वतु परेण ततः। वैरोचनध्वजप्रदीपशिरी अत्र लोकधातु विपुला विमला ॥ ३२ ॥ कल्पो अभू विरजमण्डलु यो अच्छिन्नु यत्र जिनवंशु अभूत् ।।
25 तस्मिन् सुमेरुपरमाणुसमा उपपधिपू दशबला अनिघा ॥ ३३ ॥ तस्मिन् समन्तरतनार्चिशिरी गुणकेतुराज प्रथमः सुगतः। धर्मध्वजः शिरिसुमेर जिनो गुणकेसरीश्वर चतुर्थ जिनः॥ ३४ ॥ जिनु शान्तिराज समितायुरथो यशपर्वतो गुणसुमेरुशिरी। जिनभास्करः शशिमुखो भगवानेते दश प्रथम अत्र नये ॥ ३५ ॥ गगनालयो जिनु समन्तप्रभो दिशसंभवः स्मृतिसमुद्रमुखः ।
अभ्युद्गता जिनु सुमेरुशिरी धार्चिपर्वतशिरी सुगतः ॥ ३६ ॥ गण्ड, २८
8284
30