________________
8282
२१६ गण्डव्यूहसूत्रम् ।
[३७.२९सर्वोपकरणपूजासत्कारेण च सत्कृताः । यश्च तैस्तथागतैर्धर्मो भाषितः, स मे सर्व श्रुतः । तेषां चास्मि तथागतानामववादानुशासनीषु प्रतिपन्ना । तेषु च मे तथागतेषु तीनं गौरवं प्रतिलब्धं यथारूपेण गौरवेण एकचित्तक्षणे तान् सर्वांस्तथागतांस्तानि बोधिसत्त्वपर्षन्मण्डलानि तानि च सर्वाणि बुद्धक्षेत्राणि पश्यामि ॥ 5 तस्यां च वैरोचनश्रियां लोकधातौ संवृत्तायां तत्र च विरजोमण्डले कल्पे निर्गतेऽनन्तरे मणिचक्रविचित्रप्रतिमण्डितव्यूहा नाम लोकधातुर्महाप्रभश्च नाम कल्पोऽभूत् । तत्र पश्च बुद्धशतान्युत्पन्नानि । तानि मया सर्वाण्यारागितानि । तस्मिंश्च खल्लु महाप्रमे कल्पे महाकरुणमेघध्वजो नाम तथागतः प्राथमकल्पिकोऽभूत् । स मया रात्रिदेवताभूतया अभिनिष्क्रामन् पूजितः। तस्यानन्तरं वज्रनारायणकेतुर्नाम तथागत उत्पन्नः । स 10 मया चक्रवर्तिभूतया पूजितः । तेन च मे सर्वबुद्धोत्पादसंभवो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः। स च मे श्रुतः उगृहीतः। तस्यानन्तरं ज्वलनाचिःपर्वतश्रीव्यूहो नाम तथागत उत्पन्नः । स मे श्रेष्ठिदुहितृभूतया पूजितः । तेन च मे त्र्यध्वावभासगर्भो नाम सूत्रान्तः संप्रकाशितो जम्बुद्वीपपरमाणुरजःसमसूत्रान्तपरिवारः। स च मे श्रुतः उद्गृहीतः । तस्यानन्तरं सर्वधर्मसमुद्राभ्युद्गतवेगराजो नाम तथागतो लोक 15 उदपादि । स मया असुरराजभूतया पूजितः । तेन च मे सर्वधर्मधातुतलज्ञानभेदो नाम
सूत्रान्तः संप्रकाशितः पञ्चसूत्रान्तशतपरिवारः। स च मे श्रुतः उद्गृहीतः। तस्यानन्तरं गम्भीरधर्मश्रीसमुद्रप्रभो नाम तथागत उत्पन्नः । स मे नागेन्द्रकन्याभूतया पूजितश्चिन्ताराजमणिरत्नमेघवर्षमभिप्रवर्षन्त्या । तेन च मे प्रीतिसागरविवर्धनवेगो नाम सूत्रान्तः
संप्रकाशितो दशसूत्रान्तकोटीशतसहस्रपरिवारः । स च मे श्रुत्वोद्गृहीतः। तस्यानन्तरं 20 रत्नशिखराचिःपर्वतप्रदीपो नाम तथागतः उत्पन्नः । स च मे सागरदेवताभूतया रत्नपद्ममेघवरुपसंक्रम्य पूजितः। तेन च मे धर्मधातुसागरनयप्रभो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः। स च मे श्रुत्वोद्गृहीतः, स्मृत्या च संधारितः। तस्यानन्तरं गुणसमुद्रावभासमण्डलश्रीर्नाम तथागत उत्पन्नः । स मे पश्चाभिज्ञऋषिभूतया महर्द्धिविकुर्वितेन षष्टिऋषिसहस्रपरिवृतया उपसंक्रम्य गन्धपुष्पशिखरमेघानभिप्रवर्षन्त्या 28 पूजितः। तेन च मे अनालयधर्मप्रदीपो नाम सूत्रान्तः संप्रकाशितः षष्टिसूत्रान्तसहस्रपरिवारः। सच मे श्रुत्वोद्गहीतः। तस्यानन्तरं वैरोचनश्रीगर्भो नाम तथागत उत्पन्नः। अहं च समतार्थसंभवा नाम पृथिवीदेवता अभूवम् । सा अहमप्रमेयपृथिवीदेवतापरिवारा सर्वरत्नद्रुमकोशेभ्यो रतपुष्पमेघवर्षाण्युत्सृजमाना सर्वरत्नहारमेघान् प्रवर्षमाणा उपसंक्रान्ता तस्य
तथागतस्य पूजाकर्मणे । तेन च मे सर्वतथागतसंभवज्ञानाकरगर्भो नाम सूत्रान्तः संप्र30 काशितोऽप्रमेयसूत्रान्तपरिवारः । स च मे श्रुत्वा धारितो न विप्रणाशितः ॥
तेषां खलु कुलपुत्र पश्चानां बुद्धशतानां सर्वपश्चिमो धर्मधातुगगनपूर्णरत्नशिखरश्रीप्रदीपो नाम तथागतो लोक उदपादि । अहं च तेन कालेन अभिरामश्रीवका नाम
B 114
8283