________________
5 280
B113
-३७.२९] ३७ समन्तसत्त्वत्राणोजश्री।
२१५ मित्रारागणतायै सर्वतथागतपूजोपस्थानपरिपूरणतायै प्रतिचित्तक्षणं सर्वज्ञज्ञानविरोहणविबोधन- बोधिसत्त्वचर्यानुपच्छेदनतायै । एवंप्रमुखैर्दशबुद्धक्षेत्रपरमाणुरजःसमैः प्रणिधानाभिनिर्हारमुखसमुद्रैः समन्तभद्रायां बोधिसत्त्वचर्यायां प्रणिधिमभिनिहरति स्म तस्याः समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यमिनिस्राय ॥
स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः पूर्वकुशलमूलानि संचोदयति । उद्योतयति संदर्शयति विवृणोति विभजति संप्रकाशयति सारीकरोति अविप्रणाशतायै, विपुलीकरोति महास्फरणतायै, स्थापयति सर्वज्ञताप्रमाणीकरणतायै, यदुत प्रथमचित्तोत्पादमुपादाय तथागतपूर्वप्रणिधिसमुद्रासंख्येयप्रतिलाभाय ॥
भूतपूर्व कुलपुत्र अतीतेऽध्वनि ततः परेण दशमे कल्पे मणिसूर्यचन्द्रविद्योतितप्रभायां लोकधातौ चन्द्रध्वजश्रीकेतोः तथागतस्य प्रवचने समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्री- 10 चन्द्रया दारिकया समन्तभद्रबोधिसत्त्वसमादापितया प्रलग्नस्तथागतविग्रहः पद्मनिषण्णः प्रतिसंस्कारितः । प्रतिसंस्कार्य चित्रितः। चित्रयित्वा रत्नप्रतिमण्डितः कृतः । अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं समन्तभद्रबोधिसत्त्वकल्याणमित्रमागम्य । सा तेन कुशलमूलेन अविनिपातधर्मिणी सदा देवेन्द्रकुलेषु मनुष्येन्द्रकुलेषु चोपपन्ना, सर्वत्र चाभिरूपाभूत् प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता । सदा च अविरहिताभूत्तथा- 15 गतदर्शनेन समन्तभद्रबोधिसत्त्वेन । तेनैव च कल्याणमित्रेण तस्यां तस्यां जातौ परिपाचिता संचोदिता स्मारिता। एतर्हि च पुनस्तया समन्तभद्रो बोधिसत्त्व आरागितोऽल्यन्ताविरागणतया ॥
तल्कि मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजचक्रवर्ती ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । मैत्रेयः स बोधिसत्त्वः तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजाभूच्चक्रवर्ती । 20 स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्या सा तेन कालेन तेन समयेन संपूर्णश्रीवत्रा नाम । राजभार्याभूत् ? न खलु एवं द्रष्टव्यम् । इयं प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं संनिषण्णा । तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपअभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूत् ? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम 25 राजदुहिता अभूवम् । यन्मे दारिकाभूतया इन्द्रध्वजकेतोस्तथागतस्य प्रवचने प्रग्नस्तथागतविग्रहः पद्मोद्गतः प्रतिसंस्कारितः, स मे हेतुरभूत् यावदनुत्तरायाः सम्यक्संबोधेः । यदा चास्मि समन्तभद्रेण बोधिसत्त्वेन अनुत्तरायां सम्यक्संबोधौ समादापिता, स मे कुलपुत्र प्रथमचित्तोत्पादो बोधाय अभूत् । यदा च स मे भगवान् समन्तज्ञानार्चिःश्रीगुणकेतुराजः तथागत उपसंक्रम्य आभरणैरवकीर्णः, तथागतविकुर्वितप्रातिहार्य च दृष्ट्वा धर्मश्च 30 मे तस्य भगवतोऽन्तिकाछुतः, तदा मयैष सर्वलोकाभिमुखजगद्विनयनिदर्शनो बोधिसत्त्वविमोक्षः प्रतिलब्धः । सर्वे च ते सुमेरुपरमाणुरजःसमास्तथागता आरागिता. अभिराधिताः,
S 281