SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 8279 २१४ गण्डव्यूहसूत्रम् । [३७.२९नानाधर्मधातुतलप्रवेशान् , नानाकाशतलब्यवस्थानान् , नानाबोधिगण्डव्यूहान् , नानातथागतविकुर्वितप्रभान् , नानाबुद्धसिंहासनव्यूहान् , नानातथागतपर्षन्मण्डलसमुद्रान् नानातथागतपर्षन्मण्डलपरिवर्तान् नानातथागतोपायकौशल्यपरिदीपनान् , नानातथागतधर्मचक्रप्रवर्तननयान् , नानातथागतखराङ्गरतनिर्घोषमुक्तान् नानामन्त्रनयसागरनिर्देशान् नाना5 सूत्रान्तमेघानुरवमाणानद्राक्षीत् । दृष्ट्वा च भूयस्या मात्रया महाप्रीतिप्रसादवेगान् प्रत्यलभत॥ तस्या महाप्रीतिवेगसंजातायाः स भगवान् समन्तज्ञानरत्नार्चिःश्रीगुणकेतुराजस्तथागतः सर्वतथागतधर्मचक्रनिर्घोषं नाम सूत्रान्तं संप्रकाशयामास दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारम् । तस्यास्तं सूत्रान्तं श्रुत्वा दश समाधिमुखशतसहस्राण्यवक्रान्तानि मृदूनि सुखसंस्पर्शनानि । तद्यथापि नाम तद्दिवसावक्रान्तस्य गर्भस्य मातुः कुक्षौ विज्ञानम् , 10 तद्यथापि नाम सत्त्वानां कर्माभिनिर्हारम् , तद्यथापि नाम तदिवसावरुप्तस्य सालकल्याण वृक्षस्य बीजाङ्करहेतुः, एवमेव ते समाधयो मृदवः कमनीयाः । यदुत सर्वतथागताभिमुखविज्ञापनो नाम समाधिः । सर्वक्षेत्रप्रसरानुगतावभासो नाम समाधिः । सर्वत्र्यध्वनयावतारप्रवेशो नाम समाधिः । सर्वतथागतधर्मचक्रनिर्घोषो नाम समाधिः । सर्वबुद्धप्रणिधानसागरविज्ञापनो नाम समाधिः। सर्वसंसारदुःखप्रतिपीडितसर्वनिर्याणनिर्घोषविज्ञापनो नाम समाधिः। 15 सर्वसत्त्वतमोन्धकारविधमनप्रणिधानव्यूहो नाम समाधिः। सर्वसत्त्वदुःखविप्रमोक्षप्रणिधिविलम्बो नाम समाधिः। सर्वसत्त्वसुखनिष्पत्तिसंभवो नाम समाधिः। सर्वसत्त्वपरिपाकविनयापरिखेदगर्भो नाम समाधिः।सर्वबोधिसत्त्वमार्गावतरणध्वजो नाम समाधिः। सर्वबोधिसत्त्वभूम्याक्रमणसंभवव्यूहो नाम समाधिः । एवंप्रमुखानि अस्या दश समाधिमुखशतसहस्राण्यवक्रान्तानि ।। सा सूक्ष्मसमाहितचित्ता अनिञ्जनचित्ता प्रहर्षितचित्ता समाचासितचित्ता अना. 20 भासचित्ता कल्याणमित्रेष्वनुगतचित्ता गम्भीरसर्वज्ञतारम्बणचित्ता मैत्रानुगमनसागरप्रसृतचित्ता सर्वाभिनिवेशोचलितचित्ता सर्वलोकविषयासंवासचित्ता तथागतविषयावतरणचित्ता सर्वबुद्धरूपवर्णसागरावभासितचित्ता अक्षुभितचित्ता अनीरितचित्ता अप्रतिहतचित्ता अभिन्नचित्ता अनुन्नतचित्ता अनवनतचित्ता अखिन्नचित्ता अनिवर्त्तचित्ता असंसीदनचित्ता सर्वधर्मखभावनिध्यप्तिचित्ता सर्वधर्मस्वभावनयसागरानुगतचित्ता सर्वधर्मप्रविचयनयानुगतचित्ता सर्वसत्त्व25 समुद्रावतरणचित्ता सर्वजगत्परित्राणचित्ता विपुलबुद्धसमुद्रावभाससंजातचित्ता, सर्वतथागतप्रणिधानसागरावतरणचित्ता सर्वावरणपर्वतविकिरणचित्ता विपुलपुण्यसंभारसमुदानयनचित्ता दशतथागतबलप्रतिलाभाभिमुखचित्ता सर्वबोधिसत्त्वविषयावभासप्रतिलब्धचित्ता सर्वबोधिसत्त्वसंभारसंवर्तनचित्ता सर्वदिक्समुद्रस्फरणचित्ता समन्तभद्रमहाप्रणिधानाध्या. लम्बनतायै, दशबुद्धक्षेत्रपरमाणुरजःसमः प्रणिधानसमुद्रैः सर्वतथागतानां पूर्वप्रणिधानं 30 खबुद्धक्षेत्रपरिशुद्धयेऽभिनिर्हरति स्म, यदुत सर्वसत्त्वपरिपाकविनयाय धर्मधातुनयसमुद्रप्रसरपरिज्ञायै धर्मधातुनयसमुद्रावतरणतायै सर्वबुद्धक्षेत्रेष्वपरान्तकल्पबोधिसत्त्वचर्यावतरणतायै सर्वबोधिसत्त्वचर्यामण्डलापरान्तकल्पसंवासनतायै सर्वतथागतोपसंक्रमणतायै सर्वकल्याण
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy