________________
-३७.२९] ३७ समन्तसत्त्वत्राणोज-श्रीः।
२१३ अथ खळु राजा वैरोचनरत्नपद्मगर्भश्रीचूडश्चाभिर्गाथाभिः खविजितवासिनः सर्वान् सत्त्वान् संचोध दशभिर्विविधपूजामेघसहस्रैश्चक्रवर्तिकुशलमूलपरिनिष्पन्नैः समन्तावभासधर्ममेघनिर्घोषध्वजं बोधिमण्डं समन्तादभिप्रवर्षन् येन स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः तेनोपसंक्रान्तः सर्वरत्नच्छत्रमेघसंछादितमाकाशं कुर्वन् , सर्वपुष्पवितानमेघविततमाकाशं कुर्वन् , सर्ववस्त्रमेघसंछादितालंकारमाकाशं कुर्वन् , सर्वरत्नकिङ्किणीजाल- 5_s 277 मेधैर्गगनमलंकुर्वन् , सर्वगन्धसागरनिधूपितगन्धार्चिमेघालंकारं गगनतलमधितिष्ठन् , सर्वरत्नासनमणिरत्नवस्त्रप्रज्ञप्तविरचनमेघालंकारं गगनतलमधितिष्ठन् , सर्वरत्नध्वजमेघोच्छ्रितालंकारं गगनतलमधितिष्ठन् , सर्वभवनविमानमेघसंछन्नालंकारं गगनतलमधितिष्ठन्, सर्वपुष्पमेघसंछन्नालंकारं गगनतलमधितिष्ठन् , सर्वपूजाव्यूहमेघाभिप्रवर्षणालंकारं गगनतलमधितिष्ठन् । उपसंक्रम्य भगवतः समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्य तथागतस्य पादौ शिरसाभिवन्ध तं 10 भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पुरतः समन्तदिग्विद्योतितमहामणिरत्नपद्मगर्भासने न्यषीदत् ॥
अथ खल समन्तज्ञानरत्नाचिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा चक्रवर्तिदुहिता खान्याभरणानि कायान्निर्मुच्य तैराभरणैस्तं भगवन्तं समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजानं तथागतमभ्यवकिरत् । अथ तान्याभरणानि तस्य भगवतः उपरि मूर्धसंधौ महामणिरत्नाभरणच्छत्रं 15 संस्थितमभूवन् विचित्रमणिरत्नजालपरिक्षिप्तं नागेन्द्रकायपरिगृहीतं सर्वाभरणशरीरसुसंस्थितपरिमण्डलं दशाभरणच्छत्रमण्डलपरिवारितमेकान्तपरिशुद्धं कूटागारसंस्थानविचित्रव्यूह सर्वरत्नाभरणमेघसंछादितं सर्वमणिराजद्रुमव्यूहसंछन्नं सर्वगन्धसागरमणिराजसमलंकृतम् । तस्य मध्ये धर्मधातुप्रभवसर्वरत्नमणिशाखाप्रलम्ब नाम महाबोधिवृक्षमद्राक्षीत् अनन्तमध्यव्यूहनिर्देशं प्रदक्षिणनानाव्यूहसंदर्शनम् । तत्र वैरोचनं नाम तथागतमद्राक्षीत् अनभि- 20 लाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैः परिवृतं पुरस्कृतं सर्वैः समन्तभद्रबोधिसत्त्वचर्या- B 112 प्रणिधाननिर्यातैः नानाबोधिसत्त्वैरचिन्त्यव्यूहासंभिन्नविहारिभिः, सर्वलोकेन्द्रांश्च तदभिमुखानद्राक्षीत् । तस्य भगवतो वैरोचनस्यानन्तमध्यं बुद्धविकुर्वितमद्राक्षीत् , पूर्वबोधिसत्त्वचर्याकल्पपरंपरां च अवतरति स्म । तस्याश्च लोकधातोः संवर्तविवर्तकल्पानवतरति स्म । तत्र लोकधातावतीतां बुद्धवंशपरंपरामवतरति स्म । तस्यां च लोकधातौ समन्तभद्रबोधिसत्त्व-25 8 218 मद्राक्षीत् । सर्वतथागतपादमूलेषु बुद्धपूजाप्रयुक्तसर्वसत्त्वपरिपाकविनयाभिमुखं चादाक्षीत् । सर्वबोधिसत्वांश्च समन्तभद्रस्य बोधिसत्त्वस्य काये प्रतिभासप्राप्तान् , आत्मानं च तत्रैवानुगतमद्राक्षीत् सर्वतथागतपादमूलेषु । समन्तभद्रस्य बोधिसत्त्वस्य कायप्रतिभासप्राप्तसर्वबोधिसत्त्वपादमूलेषु सर्वसत्त्वभवनेषु, तासु च लोकधातुष्वेकैकस्मिन् लोकधातौ बुद्धक्षेत्रपरमाणुरज:समान् लोकधातूनद्राक्षीत् । ससंधिव्यूहान् , सप्रतिष्ठानान् , ससंस्थानान् , सशरीरान् , 30 सनानाव्यूहपरिशुद्धान् , नानाव्यूहमेघपरिसंछन्मान् , नानाकल्पनामसंख्येयान् , नानातथागतवंशनिर्देशान् , नानात्र्यध्वनयावतारान् , नानादिकासरप्रवेशान्, नानाधर्मधातुप्रसरपर्यापन्नान्