SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २१२ s276 गण्डव्यूहसूत्रम् । [३७.२०लभेयम् । ईदृशमलंकारम् , ईदृशानि लक्षणानि, इदृशमीर्यापथम् , ईदृशीमृद्धिम् । यथा अनेनान्धकारायां रात्रौ सत्त्वानामवभासं संजनय्य बुद्धोत्पादः संप्रकाशितः, तथाहमपि सत्त्वानामज्ञानान्धकारं विधूय महाज्ञानालोकं कुर्याम् । यत्र यत्र चोत्पद्येयम् , सर्वत्राविरहिता स्यामनेन कल्याणमित्रेण ॥ 6 अथ खलु कुलपुत्र वैरोचनरत्नपद्मगर्भश्रीचूडश्चक्रवर्ती साध चतुरङ्गेन बलकायेन, साधु सप्तभी रत्नैः, साधू स्त्रीगणपरिवारेण, सार्धं पुत्रामात्यनैगमैर्जानपदैः, महत्या राजा, महता राजानुभावेन तस्या रत्नकुसुमप्रदीपाया राजधान्या उच्चाल्य योजनमूर्ध्वं विहायस्यभ्युद्गम्य सर्व जम्बुद्वीपं सर्वावतीं चातुर्कीपिकलोकधातुं महावभासेन स्फरित्वा सर्वसत्त्वानां बुद्धदर्शनसमादापनाथ सर्वरत्नपर्वतेषु प्रतिभासं संदर्य सर्वचातुर्दीपिकलोकधातुपर्यापन्नानां 10 सत्त्वानामभिमुखं स्थित्वा तद्बुद्धदर्शनं गाथाभिगीतेन संवर्णयामास बुद्ध लोके समुत्पन्नस्त्राता यः सर्वदेहिनाम् । सर्वे व्रजन्त उत्थाय द्रष्टुं लोकविनायकम् ॥२०॥ कदाचित्कल्पकोटीभिरुत्पद्यन्ते तथागताः।। प्रकाशयन्ति ते धर्म हितार्थं सर्वदेहिनाम् ॥ २१ ॥ दृष्ट्वा लोकं विपर्यस्तमज्ञानतिमिरावृतम् । संसारदुःखामिहतं संजन्य महतीं कृपाम् ॥ २२ ॥ कल्पकोटीरसंख्येयाश्चरिता बोधिचारिका । सत्त्वानां परिपाकार्थं सर्वदुःखोपशान्तये ॥ २३ ॥ पर्यत्यजन् हस्तपादा कर्णनासा शिरांसि च । कल्पाननन्तपर्यन्ता बुद्धबोध्यमृताप्तये ॥ २४ ॥ दुर्लभाः कल्पकोटीभि.के लोकविनायकाः । अमोघं श्रवणं येषां दर्शनं पर्युपासनम् ॥ २५ ॥ बोध्यासननिषण्णोऽयं दृश्यते वदतां वरः। मारं ससैन्यं निर्जित्य विबुद्धो बोधिमुत्तमाम् ॥ २६ ॥ बुद्धकायं च वीक्षध्वं अनन्तरश्मिमण्डलम् । नानावणं विनिःसृत्य प्रह्लादयति यज्जगत् ॥ २७ ॥ रश्मिमेघानसंख्येयान् बुद्धरोमविनिःसृतान् । विन्दन्ति प्रीतिमतुलां सत्त्वा यैरवभासिताः ॥ २८ ॥ खकखकेन चित्तेन पूजयध्वं विनायकम् । जनयित्वा महद्वीर्यमेत यामस्तदन्तिकम् ॥ २९ ॥ 1 B सैन्यं च.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy