________________
8308
गण्डव्यहररात्रम् ।
[३९,०तम् । शासनान्तर्धानकाले च सहस्रधा भिन्ने शासने दशनयशतभिन्नायां धर्मदेशनायामनन्तरकल्पकषाये प्रत्युपस्थिते सर्वकर्मक्लेशावरणावृतानां सत्त्वानां कलहविग्रहविवादमापन्नानां भिक्षूणां च बुद्धशासनगुणानथिकानां विषयरतिपरायणानां राजचौरकथाभिरतानां स्त्रीजनपदसमुद्रकथाभिरतानां लोकायतगन्त्राभिरतानामुद्वेगसंजननार्थं धार्मिक उल्कासः 5 कृतोऽभूत्-अहो वतेयमनेककल्पसमुदानीता महाधर्मोल्का अन्तर्धास्यतीति संवेगजननीया
कथा कृता । स ऊर्ध्वं गगनतले सप्ततालमात्रमभ्युद्गम्य अनन्तवर्णानचिमेघान्निश्चार्य नानावर्णान् महारश्मिजालव्यूहान् कायादुत्सृज्य अनेकवर्णया प्रभया लोके क्लेशतापं शमयित्वा अनन्तमध्यान् सत्त्वान् बोधौ प्रतिष्ठापयामास । तच्च तथागतशासनं पुनवालयित्वा
षष्टिवर्षसहस्राण्यस्थात् ॥ 10 तेन च समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूत् तस्यैव विमलचक्रभानु
प्रभस्य चक्रवर्तिनो दुहिता भिक्षुणीशतसहस्रपरिवारा । सा तं संवेगशब्दं श्रुत्वा तच्च महाप्रातिहार्यं दृष्ट्वा सपरिवारा बोधाय चित्तमुत्पादयामास । तच्च भिक्षुणीशतसहस्रमनुत्तरायां सम्यक्संबोधाववैवर्तिकमभूत् । तथागतसंमुखीभावसमवसरणं च नाम समाधि प्रत्यलभत । सर्वतथागतधर्मचक्रनिर्माणप्रभं च नाम धारणी सर्वधर्मसागरनयप्रवेशां च नाम प्रज्ञा16 पारमिता प्रत्यलभत । धर्मचक्रनिर्माणप्रभा च भिक्षुणी सर्वतथागतशासनसंभवावभासप्रदीपं च नाम समाधिम् , एतं च मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं च वोधिसत्त्वविमोक्षं सूक्ष्ममृदुकं प्रत्यलमत, यत्प्रतिलाभादस्य सर्वधर्मसागरनि|पप्रभराजस्य तथागतस्य तत्सर्व विकुर्वितमामुखीभूतम् ॥
तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विमलवक्त्रमानुप्रभो 20 नाम राजाभूच्चक्रवर्ती येन तत्सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्य शासने प्रव्रजित्वा धर्म
चक्रमनुप्रवर्तितम् , परिनिर्वृतस्य च शासनान्तर्धानकालसमये शासनं संधारितम् , महाधर्मोल्का च ज्वलिता ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । समन्तभद्रो बोधिसत्त्वः स तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभो नाम राजा अभूच्चक्रवर्ती । तल्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभस्य राज्ञश्चक्रवर्तिनो धर्मचक्र25 निर्माणप्रभा नाम दुहिता भिक्षुण्यभूद्भिक्षुणीशतसहस्रपरिवारा ? न खल्वेवं द्रष्टव्यम् । अहं सा
तेन कालेन तेन समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूवम् ? मया तत्तस्य सर्वधर्मसागरनिर्घोषग्रभराज्ञस्तथागतस्य शासनं संधारितम् । तच्च भिक्षुणीशतसहस्रं सर्वमवैवर्तिक कृतमनुत्तरायां सम्यक्संबोधौ । तथागतसंमुखीभावसमवसरणे च समाधौ प्रतिष्ठापितम् । सर्वतथागतधर्मचक्रवज्रप्रभायां धारण्यां सर्वधर्मसागरनयप्रवेशायां च प्रज्ञापारमितायां प्रतिष्ठापितम् ॥ 30 तस्य च मया तथागतस्यानन्तरं विमलधर्मपर्वतज्ञानशिखराभो नाम तथागत आरागितः। तस्यानन्तरं मण्डलावभासप्रभचूडो नाम तथागत आरागितः । तस्यानन्तरं धर्म- . भास्करश्रीमेघो नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरनिर्देशघोषो नाम तथागत
.8309