________________
- ३७.१९]
३७ समन्त सवत्राणोजः श्रीः ।
२०९
तत्र महापद्मे समन्तज्ञानाचि श्रीगुणकेतुध्वजो नाम तथागतः प्रादुर्बभूव तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः, येन तस्मिन् कल्पे सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । सोऽनेकवर्षसहस्राणि धर्मश्रवणेन सत्त्वान् परिपाच्य दशवर्षसहस्रं रश्म्यवभासविकुर्वितेन परिपाचयामास तत्र दशभिर्वर्षसहस्रैः स तथागतः प्रादुर्भविष्यतीति । यत्ततः सर्वत्र्यध्वतथागतविषयपत्र संधिविद्योतितरश्मिमेघव्यूह महारत्नराजपद्मात् सर्वसत्त्व - 5 विरजःप्रदीपा नाम रश्मिर्निश्वचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः संजानन्ति स्म - दशभिर्वर्षसहस्त्रैस्तथागत उत्पत्स्यत इति, नवभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्ततो महाबोधिवृक्षाद्विरजोवतीश्रीगर्भा नाम रश्मिर्निश्वचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः सर्वैरूपाणि सूक्ष्माण्यपश्यन्–अष्टाभिर्वर्षसहस्त्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वकर्मविपाकनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः स्वकखकान् 10 कर्मसमुद्रानवतरन्ति स्म, कर्मस्मृतिज्ञानं च प्रत्यलभन्त - सप्तभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वकुशलमूलसंभवनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः परिपूर्णा अविकलसर्वेन्द्रियाः संतिष्ठन्ते स्म - षनिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षादचिन्त्यबुद्ध विषयनिदर्शननिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः उदारातिशयतया विकुर्वन्ति स्म - पञ्चभिर्वर्षसहस्रैः 15 स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वबुद्धक्षेत्रपरिशुद्धिनिगर्जितप्रतिभासविज्ञापना नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः सर्वाकारां बुद्धक्षेत्रपरिशुद्धिमद्राक्षुःचतुर्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वतथागतविषयासंभेदप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य सर्वत्रानुगतविकुर्वितमवतरन्ति स्म - त्रिभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति । एव महाबोधिवृक्षात्सर्वजगदभिमुखप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतमभिमुखमधिमुच्यापश्यन् - द्वाभ्यां वर्षसहस्राभ्यां स तथागत उत्पस्यत इति । यत्तत एव महाबोधिवृक्षात् त्र्यध्वज्ञानविद्युत्प्रदीपा नाम रश्मिर्निश्चचार सतथागतपूर्वयोगनिर्घोषा नाम, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य पूर्वयोगसमुद्रानवकल्पयामासुरवतरन्ति स्म - वर्षसहस्त्रेण स तथागत उत्पत्स्यत इति । यत्ततो महाबोधिवृक्षाद्वितिमिरज्ञान - 25 तथागतप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः समन्तचक्षुष्कतां प्रत्यलभन्त सर्वतथागतविकुर्वितबुद्धक्षेत्रसर्वसत्त्वदर्शनतायै - वर्षशतेन स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वजगद्बुद्धदर्शनविपाककुशलमूलसंभवा नाम रश्मिर्निश्च चार, यया ते सत्त्वाः स्पृष्टाः तथागतोत्पादसंज्ञां प्रत्यलभन्त - सप्ताहेन स तथागत उत्पत्स्यत इति । यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वप्रहर्षप्रीतिप्रामोद्यसमुदयनिर्घोषा नाम रश्मिर्निश्चचार, 30 यया ते सत्त्वाः स्पृष्टाः बुद्धदर्शनमहाप्रीतिवेगसंजाता अभूवन् । इति हि कुलपुत्र एभिरेवंरूपैरप्रमाणैः रश्मिपरिपाचननयैर्दशवर्षसहस्राणि सत्त्वान् परिपाच्य सप्तमे दिवसे पूर्णे
यत्तत 20
गण्ड, २७
S 271
S 272