________________
२०८
गण्डव्यूहसूत्रम् ।
[३७.१९गात्राणां दिव्यगन्धविमलप्रभाप्रमुञ्चनशरीराणाम् । दश चास्य अमात्यकोट्योऽभूवन् परिणायकरत्नप्रमुखाः॥
तस्य खलु वैरोचनरत्नपद्मगर्भश्रीचूडस्य राज्ञश्चक्रवर्तिनः संपूर्णश्रीवका नाम भार्या अभूत् स्त्रीरत्नम् , अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता। 5 अभिनीलकेशी अभिनीलनेत्रा सुवर्णवर्णच्छविब्रह्मखरा सततप्रमुक्तप्रभाशरीरा समन्ताद्योजनसहस्रमनेकवर्णया दिव्यगन्धप्रभया स्फरति स्म । तस्याश्च संपूर्णश्रीवकाया राजभार्यायापद्मभद्राभिरामनेत्रश्री म चक्रवर्तिदुहिता अभूत् , सर्वाङ्गसंपूर्णा अभिरूपा प्रासादिका दर्शनीयां सर्वलोकातृप्तदर्शना । तद्यथापि नाम कुलपुत्र राज्ञश्चक्रवर्तिनो दर्शनेन न
कश्चित् तृप्यति, एवमेव तस्याः पद्मभद्राभिरामिनेत्रश्रियश्चक्रवर्तिदुहितुर्न कश्चिद्दर्शनेन 10 तृप्तिमापद्यते स्थापयित्वा प्रज्ञातृप्तान् । तेन च कालेन तेन समयेन अमितायुषः सत्त्वा
अभूवन् न नियतायुषः, नास्ति अन्तरेण कालक्रिया । तेन च कालेन सत्त्वानां संस्थाननानात्वमपि प्रज्ञायते स्म । वर्णनानात्वमपि खरनानात्वमपि नामधेयनानात्वमपि कुलनानात्वमपि आयुष्प्रमाणनानात्वमपि आरोहपरिणाहविमात्रतामपि उत्साहबलपराक्रमस्थामविमात्रतामपि मनापामनापकरणीयविमात्रतामपि उदारहीनाधिमुक्तिनानात्वमपि प्रज्ञायते 15 स्म । तत्र ये सत्त्वाः सुवर्णा अभूवन्नुदाराधिमुक्तिकाः संपूर्णगात्रा अभिरूपा दर्शनीयाः,
त एवं वाचमभाषन्त-अहं भोः पुरुष सुवर्णेतरस्त्वत्सकाशादिति । एवं ये सत्त्वाः सुसंस्थितशरीरा अभूवन् , ते दुःसंस्थितशरीरान् सर्वानवमन्यन्ते स्म । ते तेन अन्योन्यावमाननासमुदितेन अकुशलमूलेन आयुःप्रमाणादपि परिहीयन्ते स्म, वर्णादपि बलादपि सौख्यादपि परिहीयन्ते स्म ॥ 20 तस्यां खलु रत्नकुसुमप्रदीपायां राजधान्यामुत्तरेण समन्तावभासनधर्ममेघनिर्घोषध्वजो नाम बोधिमण्डवृक्षोऽभूत् सर्वतथागतबोधिमण्डव्यूहप्रतिक्षणदर्शनः अभेद्यवज्रमणिराजसारमूलः सर्वमणिरत्ननिचितविपुलोद्विद्धस्कन्धः सर्वरत्नमयस्कन्धशाखापत्रपलाशपुष्पफल: संपन्नः समन्तसुविभक्तः समभागाभिप्रलम्बरचितशाखः समन्तस्फरणाक्षयताव्यूहो नानारत्नार्चिविद्युत्समन्तभद्रप्रमुक्तावभासः सर्वतथागतविषयविकुर्वितनिर्घोषानुरवितः॥
तस्य खलु बोधिमण्डस्य पुरतो रनकुसुमविद्युद्धर्मनिगर्जितमेघघोषं नाम गन्धोदकसरोऽभूद्दशरतद्रुमकोटीनियुतशतसहस्रपरिवारम् । सर्वे च ते रत्नवृक्षा बोधिवृक्षसंस्थाना अभूवन् । तस्य खलु पुना रनकुसुमविद्युद्धर्मनिगर्जितमेघघोषस्य महागन्धोदकसरसः सर्वमणिरत्नसुविभक्तनिचितानि कुलान्यभूवन् , सर्वरत्नहारप्रलम्बितानि विशुद्धरतमयसर्वभवनव्यूहोपशोभितानि विशुद्धसर्वाभरणव्यूहसमलंकृतानि । सर्वश्च बोधिमण्डोऽप्रमाणैः पद्मगभैरचिन्त्य30 व्यूहमहामणिरत्नकूटागारैः समन्तात्परिवृतोऽभूत् । तस्य खळु पुना रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषस्य गन्धोदकसरसः मध्यात् सर्वत्र्यध्वतथागतविषयपत्रसंधिविद्योतितमेघव्यूहं नाम महारत्नराजपनं प्रादुरभूत् ।।
8270
B 109
25