________________
8266 B 108
-३७.१९] ३७ समन्तसत्त्वत्राणोज-श्रीः।
२०७ ____ भूतपूर्व कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रपरमाणुरजःसमानां कल्पानां परेण वैरोचनतेजःश्रियां लोकधातौ विरजोमण्डलो नाम कल्पोऽभूत् सुमेरुपरमाणुरजःसमवुद्धोत्पादप्रभवः । सा खलु पुनर्वैरोचनतेजःश्रीलोकधातुः सर्वरत्नमेघव्यूहा वज्रमयविमानभवनप्रतिमण्डिताभूत् ॥
__ अथ सा लोकधातुः सर्वविमलप्रभमणिराजसागरप्रतिष्ठिता सर्वगन्धराजमणिरत्नशरीरा , समन्तपरिमण्डलविशुद्धसंक्लिष्टा सर्वाभरणमेघवितानसंछादिता सर्वव्यूहमणिचक्रवालसहस्रपरिक्षिप्ता चातुर्दीपिककोटिनियुतशतसहस्रसुरचितव्यूहा । काचित्तत्र चातुर्दीपिका संक्लिष्टासंक्लिष्टकर्मणां सत्त्वानामावासः, काचित्संक्लिष्टविशुद्धव्यामिश्रकर्मणां सत्त्वानामावासः, काचिद्विशुद्धसंक्लिष्टानां सत्त्वानामावासः उत्तप्तकुशलमूलानामल्पसावद्यानाम् , काचिदेकान्तपरिशुद्धानां बोधिसत्त्वानामावासः॥
तस्याः खलु पुनर्वैरोचनश्रियो लोकधातोः पूर्वेण चक्रवालानुसंधौ रत्नकुसुमप्रदीपध्वजा नाम चातुर्कीपिका भूमिशुद्धिसंक्लिष्टा अकृष्टोप्तशालिपरिभोगा पूर्वकर्मविपाकाभिनिवृत्तकूटागारभवनविमानपरिभोगा समन्तात् कल्पवृक्षसंछादिता नानागन्धवृक्षसदाप्रमुक्तकोशगन्धमेघा विविधमाल्यवृक्षसदाप्रवर्षितमाल्यमेघा विचित्रपुष्पवृक्षा अचिन्त्यवर्णगन्धपुष्पवौघप्रमुक्ता नानावर्णचूर्णवृक्षसदाप्रमुक्तकोशसर्वगन्धरत्नराजचूर्णवर्षाभिप्रवृष्टा विविध- 15 रत्नवृक्षमहामणिरत्नकोशविसृतवर्णावभासिता दिव्यवाद्यवृक्षसर्ववाद्यमेघवातसमीरितगगनतलप्रमुक्तमधुरनिघोषा चन्द्रसूर्यरात्रिंदिवासुखप्रभवा मणिरत्नसमन्तावभाससमभूमिभागा ॥
तस्यां खलु चातुर्दीपिकायां दश राजधानीकोटीनियुतशतसहस्राण्यभूवन् । एकैका च राजधानी समन्तान्नदीसहस्रपरिक्षिप्ता । सर्वाश्च ता नद्यो विचित्रदिवापुष्पौघसंकरवाहिन्यो दिव्यतूर्यसंगीतिमनोज्ञमधुरनिर्घोषाः सर्वरत्नद्रुमतीरसुरुचिरव्यूहाः नानारत्नप्रति-20 मण्डिताः नौसंचारिण्यो यथेच्छाविविधसुखपरिभोग्याः । एकैकस्यां च नद्यन्तरिकायां दश नगरकोटीनियुतशतसहस्राणि संस्थितान्यभूवन् । एकैकं च नगरं दशग्रामकोटीनियुतशतसहस्रपरिवारम् । सर्वे ते ग्रामनगरनिगमा अनेकदिव्योद्यानभवनविमानकोटीनियुतशतसहस्रपरिवारा अभूवन् । तस्यां खलु पुनश्चातुीपिकायां जम्बुद्वीपस्य मध्ये रत्नकुसुमप्रदीपा नाम मध्यमा राजधान्यभूत् , ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनदेवमनुष्या 25 च दशकुशलकर्मपथसमात्तानां सत्त्वानामालयः । तस्यां खलु पुना रत्नकुसुमप्रदीपायां राजधान्यां वैरोचनरनपद्मगर्भश्रीचूडो नाम राजा अभूत् चक्रवर्ती चतुर्दीपेश्वरः औपपादुका पद्मगर्भे द्वात्रिंशन्महापुरुषलक्षणसमलंकृतशरीरो धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। पूर्णं चास्य सहस्रमभूत् पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां सर्वाकारसुपरिपूर्णवराङ्गानाम् । दश चास्य स्त्रीकोटीनियुतशतसहस्राण्यन्तःपुरमभूत् सर्वासां 30 चक्रवर्तिसभागकुशलमूलसंभवानां सभागचरितानां सहरनकायालंकाराणां कल्याणचित्तानां देवकन्यानिर्विशेषसदृशरूपाणां जाम्बूनदसुवर्णवर्णकायानां नानादिव्यगन्धरोमकूपप्रमुक्त
269