________________
२०६
गण्डव्यूहमत्रम।
[३७.१०यद प्रेषितस्तव सकाशमहं समुपस्थितो गुण विचिन्तयता। तद रश्मिमण्डल शुभा विमला भ्रमुखान्तरातु तव निश्चरिषु ॥ १० ॥
ओभासयन् दिश समुद्रशतानालोक लोकि विपुलां जनिय । नानाविकुर्वित विदर्य वहूनस्तंगता मम शरीरि तदा ॥ ११ ॥ यद रश्मिण्डल ममा निपती तद सौख्यमद्भुतमुदारमभूत् ।
ओक्रान्त धारणि समाधिशता पश्यामि दिक्षु च जिनानमिता ॥ १२ ॥ क्रमविक्रमे यद धरा क्रमतः परमाणुसंख्यनयु ज्ञातु मया । पश्यामि क्षेत्रपरमाणुसमा क्षेत्राणि एकपरमाणुरजे ॥ १३ ॥ रजसि स्थिता पृथगनेकविधा नेकान्तक्किप्ट बहु क्षेत्रशता । दुःखानि येष्वनुभवन्ति जनाः परिदेवरोदितनिनादरुतैः ॥ १४ ॥ संक्लिष्टशुद्ध पुन क्षेत्र वहून अल्पं सुखं विपुल यत्र दुःख । समुदेन्ति येषु जिन कारुणिक जिनश्रावका अपि प्रत्येकजिनाः ॥१५॥ परिशुद्धक्लिष्ट पुन क्षेत्रनया बहुबोधिसत्त्वरचनाप्रचिताः। नरनारिमण्डित सुदर्शनीयाः जिनवंशु यत्र स्थिहती रुचिरः ॥ १६ ॥ क्षेत्रसमुद्र विपुला विमला रजसि स्थिता समतलानुगता। वैरोचने चरिता हि पुरा परिशोधिता विपुलकल्पशतैः ॥ १७ ॥ सर्वेषु क्षेत्रप्रसरेषु जिनाः संदृश्यिषु द्रुमवरेन्द्रगताः। बोधि विबुद्धययु विकुर्वयतो चक्र प्रवर्त्य विनयन्ति जगत् ॥ १८ ॥
पश्यामि त्वामनुगतामपि तां वैरोचनस्य विषये विपुले । 20 पूजा सहस्रनयुतैः अमितैः सर्वान् जिनान् समभिपूजयन्ती ॥ १९॥
अथ खल सुधनः श्रेष्ठिदारकः इमा गाथा भाषित्वा समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतामेतदवोचत्-आश्चर्य देवते, यावद्गम्भीरोऽयं बोधिसत्त्वविमोक्षः । किं नाम अयं विमोक्षः ? कियच्चिरप्रतिलब्धश्चायं त्वया ? कथं च प्रतिपद्यमानो बोधिसत्त्वः इमं बोधि
सत्त्वविमोक्षं परिशोधयति ? आह-दुरभिसंभवं कुलपुत्र एतत्स्थानं सदेवकेन लोकेन सश्रावक25 प्रत्येकबुद्धेन । तत्कस्य हेतोः? समन्तभद्रबोधिसत्त्वचर्याप्रणिधानानुगतान हि बोधिसत्त्वानामेष गोचरो महाकरुणागर्भाणां सर्वजगत्परित्राणप्रतिपन्नानां सर्वाक्षणापायदुर्गतिपथविशोधनप्रतिपन्नानां सर्वक्षेत्रानुत्तरबुद्धक्षेत्रपरिशुद्धिप्रतिपन्नानां सर्वबुद्धक्षेत्रतथागतवंशानुपच्छेदप्रतिपन्नानां सर्वबुद्धशासनसंधारणप्रतिपन्नानां सर्वकल्पबोधिसत्त्वचर्यासंवाससंवसनमहाप्रणिधानसागरावतीर्णानां सर्वधर्मसागरवितिमिरज्ञानालोकविशोधनप्रतिपन्नानामेकक्षणेन 30 सर्वत्र्यध्वनयसागरज्ञानालोकविहारप्रतिलब्धानां बोधिसत्त्वानामेष विषयः । अथ च पुन
स्तथागताधिष्ठानेन निर्देक्ष्यामि
15
8207