________________
-३७.९] ३७ समन्तसत्त्वत्राणोजःश्रीः।
२०५ सर्वसत्त्वसुखसमुदयप्रीतिवेगविवर्धनतायै सर्वसत्त्वसंग्रहज्ञानप्रयोगतायै विपुलबोधिसत्त्वविमोक्षविकुर्वितवृषभितासमन्वागतत्वात् , सर्वक्षेत्रपरिशोधनाभिमुखीमपश्यत् । सर्वधर्मज्ञानानुबोधाभिमुखीं सर्ववुद्धपूजोपस्थानाभिमुखी सर्वतथागतशासनसंधारणाभिमुखी सर्वकुशलोपचयाभिमुखी सर्वबोधिसत्त्वचर्याविवर्धनाभिमुखी सर्वसत्त्वचित्तानावरणाभिमुखस्थितां सर्वसत्त्वेन्द्रियपरिपाचनाभिमुखस्थितां सर्वसत्त्वाधिमुक्तिसमुद्रविशोधनाभिमुखी सर्वसत्त्वावरणीयधर्मविनिवर्त- 5 B 107 नाभिमुखी सर्वसत्त्वाज्ञानान्धकारविधमनाभिमुखी सर्वकुशलापर्ययाभिमुखीमपश्यत् सर्वज्ञज्ञानालोकसंजननतायै ॥
अथ खल सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया इदमचिन्त्यं सर्वलोकाभिमुखजगद्विनयनिदर्शनबोधिसत्त्वविमोक्षवृषभिताविकुर्वितं दृष्ट्वा प्रहर्षजातो महाप्रीतिवेगसागरप्रतिलब्धः समन्तसत्त्वत्राणोज श्रियो रात्रिदेवतायाः सर्वशरीरेण प्रणिपत्य ऊर्ध्वं 10 वदनमवलोकयामास । अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रिदेवता तां बोधिसत्त्वरूपलक्षणविशुद्धिसंपदमन्तर्धाप्य रात्रिदेवतारूपेण सर्वविकुर्वितानि प्रवर्तयमाना अध्यतिष्ठत् । अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजश्रियो रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा तस्यां वेलायामिमा गाथा अभाषत
दृष्टो मया विपुलकायु तवा वरलक्षणो रतनआभरण । अनुव्यञ्जनैः चित्रविचित्रशुभैर्गगनं ज्योतिषगणेन यथा ॥ १॥ तवनन्तक्षेत्ररजधातुसमं प्रभमण्डलं प्रवरकायशुभम् । नानाविधानुपमवर्णनिभा येन स्फरी दिशमनन्ततला ॥ २ ॥ बहु रश्मिजाल जगच्चित्तसमास्त्वं सर्वरोममुखतः सृजसे । रश्मीमुखे रुचिरपद्मस्थिताः तव निर्मिता जगि समेति दुःखम् ॥ ३॥ 20 गन्धार्चिमेघपटलां सृजसे जगरूपसंस्थितसमन्तशुभाम् । पुष्पा प्रवर्षन्त समन्तमुखं स्फरति धर्मधातुगत सर्वजिनान् ॥ ४ ॥ रतनार्चिपर्वतमेरुनिभं तव आभकूटु विपुलं विमलम् । येन प्रभासति समन्तजगे मोहान्धकार विनिवर्तयसे ॥ ५॥ तव सूर्यमेघपटला विपुला सद निश्चरन्ति वदनाद्विमलाः। वैरोचनस्य विषयं विपुलं तव सूर्यमण्डलप्रभोत्सृजति ॥ ६॥ तव चन्द्रज्योतिषप्रभा विमला नयनेमि मेघ सद निश्चरिषु । ते चो दशदिशि स्फरित्व जगं द्योतन्ति लोकि तिमिरोपहता ॥ ७ ॥ तव लक्षणैर्जगशरीरसमा गच्छति निर्मितसमुद्र दिशः। ते धर्मधातुविपुलस्फरणाः परिपाचयन्त्यमितसर्वगणान् ॥८॥ तव कायु दृश्यति हि दिक्प्रसरैः सर्वजगाभिमुख प्रीतिकरः । राजाग्निचोरजलजात्यमित सर्व भयं शमयसे विनयन् ॥ ९॥
8266
30