SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ B 110 8273 २१० गण्डव्यूहसूत्रम् । [३७.१९सर्व तं लोकधातुमप्रमाणैः संकम्पननयैः संकम्प्य एकान्तपरिशुद्धामध्यतिष्ठत् यावद्दशसु दिक्षु सर्वतथागतानां बुद्धक्षेत्रपरिशुद्धिः । तामपि सर्वां प्रतिचित्तक्षणं तत्र बुद्धक्षेत्रनानाविधाचिन्त्यव्यूहान् संदर्शयामास । अथ पश्चिमे सप्ताहे ये तत्र लोकधातौ सत्त्वा बुद्धदर्शनपरिपकाः, ते सर्वे बोधिमण्डाभिमुखाः स्थिता अभूवन् ॥ 6 अथ खलु तस्मिन् लोकधातौ सर्वचक्रवालेभ्य सर्वसुमेरुभ्यः सर्वपर्वतेभ्यः सर्वनदीभ्यः सर्वसागरेभ्यः सर्ववृक्षेभ्यः सर्वपृथिवीतलेभ्यः सर्वनगरेभ्यः सर्वप्राकारेभ्यः सर्वभवनेभ्यः सर्वविमानेभ्यः सर्ववस्त्राभरणपरिभोगेभ्यः सर्ववाद्यवृक्षेभ्यः सर्वत्र्यसंगीतिभ्यः सर्वनिर्माणव्यूहेभ्यः एकैकस्मादारम्बणात् सर्वतथागतविषयप्रभवं निगर्जमानाः सर्वगन्धधूपमेघान्निश्चार्य सर्व रत्नार्चिमेघान् सर्वगन्धधूपांचिंगर्भान् सर्वगन्धमणिविग्रहमेघान् सर्वमणिवस्त्ररत्नाभरणमघान् 10 सर्वरत्नपुष्पसुमेरुमेघान् सर्वचूर्णमेघान् सर्वतथागतरश्मिमेघान् विद्योतयमानाः सर्वतथागत प्रभामण्डलमेघान्निश्चारयमाणाः सर्ववाद्यतूर्यमेघान् संघट्टयमानाः सर्वतथागतप्रणिधाननिर्घोपमेघान् प्रमुञ्चयमानाः सर्वतथागतवराङ्गरुतसमुद्रमेघान् निगर्जयमानाः सर्वतथागतलक्षणानुव्यञ्जनविचित्रप्रतिभासमेघान् निदर्शयमानाः अचिन्त्यानि तथागतोत्पादपूर्वनिमित्तानि संदर्य तस्य सर्वत्र्यध्वतथागतविषयपत्रसंधिद्योतितरश्मिमेघव्यूहमहारत्नराजपद्मस्य बोधौ दशबुद्धक्षेत्र15 परमाणुरजःसमा महारत्नराजपद्मपरिवाराः समवतिष्ठन्त । तेषां च महारत्नराजपद्मपरिवाराणां महारत्नपद्मानां केसरकर्णिकासु दशबुद्धक्षेत्रपरमाणुरजःसमानि महामणिरत्नगर्भाणि सिंहासनानि प्रादुरभूवन् । तेषु च मणिरत्नगर्भेष्वासनेषु दशबुद्धक्षेत्रशतसहस्रपरमाणुरज:समा बोधिसत्त्वाः पर्यङ्कनिषण्णाः प्रादुर्बभूवुः ॥ समनन्तराभिसंबुद्धस्य तस्य भगवतः समन्तज्ञानरत्नार्चिश्रीगुणकेतुराज्ञः तथागतस्य 20 अनुत्तरां सम्यक्संबोधिम् , अथ तावदेव दशसु दिक्षु सर्वलोकधातुतथागता अनुत्तरां सम्यक्संबोधिमभिसंबुध्य यथाशयानां सत्त्वानामभिमुखं धर्मचक्र प्रवर्तयामासुः । तेन ततो लोकधातोरप्रमेयाः सत्त्वाः सर्वदुर्गतिविनिपातेभ्यो विनिवर्तिताः । अप्रमेयाः सत्त्वाः खर्गोपपत्तिप्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः प्रत्येकबोधौ परिपाचिताः । अप्रमेयाः सत्त्वा वेगप्रभानिर्याणायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वा 25 विमलपराक्रमध्वजायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वाः धर्मप्रभावनाभवननिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्वा इन्द्रियपरिशुद्धिप्रभावनानिर्याणायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वा बलसमतासमुदाचारानुगमनिर्याणायां बोधौ परिपाचिताः । अप्रमेयाः सत्त्वा धर्मनगराभिमुखविषययानसंभवनिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः सर्वत्रानु गत_भिसंभिन्ननययाननिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः चर्याप्रयोगसमव30 सरणनयनिर्याणायां बोधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः समाधिप्रस्थाननयनिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वा बोधिसत्त्वबोधौ चित्तमुत्पादिताः । अप्रमेयाः सत्त्वा बोधि 8274
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy