________________
S 261
S 262
गण्डव्यूहसूत्रम् !
[ ३६.९५चक्रवर्तिभार्या अभूवं स्त्रीरत्नम् । साहं तया रात्रिदेवतया प्रतिबोध्य बुद्धदर्शने समादापिता । इयच्चिरोत्पादितं मे कुलपुत्र अनुत्तरायां सम्यक्संवोधौ चित्तम् । साहं तेन चित्तोत्पादेन बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् न जातु दुर्गतिविनिपातेषु उपपन्ना । सततसमितं देव - मनुष्यगतिपरायणा । सर्वत्र च अविरहिता तथागतदर्शनेनाभूवम् । यावन्मे भगवतो रत्नश्री - ऽ प्रदीपगुणकेतोस्तथागतस्यार्हतः सम्यक्संबुद्धस्य सहदर्शनादयं समन्तभद्रप्रीतिविपुलविमलवेगध्वजो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य प्रतिलाभादहमेवंरूपेण सर्वसत्त्वपरिपाकविनयान प्रत्युपस्थिता ॥
एतमहं कुलपुत्र समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वतथागतपादमूलेषु प्रतिक्षणं सर्वज्ञताप्रस्थान महावेग सागरप्रतिलब्धानां 10 बोधिसत्त्वानां सर्वप्रस्थानमुखेषु प्रतिक्षणं महाप्रणिधानसागरावताराप्रतिप्रस्रब्धानां प्रतिचित्तक्षणं सर्वप्रणिधानसागरनयेपु अपरान्तकल्पचर्यामण्डलाभिनिर्हारकुशलानाम्, एकैकस्यां च चर्यायां सर्वबुद्धक्षेत्रपरमाणुरजः समकायाभिनिर्हारकुशलानाम्, एकैकेन च कायेन सर्वधर्मधातुनयसागरस्फरणानाम्, एकैकस्मिंश्च धर्मधातुनयसागरे सर्वबुद्धक्षेत्रेषु यथाशयसत्त्वकायविज्ञप्तिचर्यासंदर्शनकुशलानाम्, एकैकस्मिंश्च क्षेत्रपरमाणुरजस्यनन्तमध्यतथागत15 समुद्रावतरणकुशलानाम्, एकैकस्य च तथागतस्य धर्मधातुस्फरणपरमतथागत विकुर्वितावतरणकुशलानाम्, एकैकस्य च तथागतस्य धर्मधातुस्फरणपरमतथागतविकुर्वितावतरणकुशलानाम्, एकैकस्य च तथागतस्यै पूर्वान्तकल्पबोधिसत्त्वचर्यासंभारसंभवसमुदागमावतारकुशलानाम्, एकैकस्यं च तथागतस्य विमलधर्मचक्रसंप्रत्येषणसंधारणकुशलानां सर्वत्र्यध्वतथागतविकुर्वितनयसागरावतरणकुशलानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इयमिहैव तथागतपर्षन्मण्डलसमनन्तरं समन्तसत्त्वत्राणोजः श्री नाम रात्रिदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्व चर्यामण्डलमवतरितव्यम्, कथं परिशोधयितव्यम् ॥
२०२
20
25
अथ खलु सुधनः श्रेष्ठिदारकः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अन्तिकात् प्रक्रान्तः ॥ ३४ ॥
१ Som. धर्म... तथागतस्य.
--+90+