________________
108260
-३६.९५1 ३६ प्रमुदितनयनजगद्विरोचना।
२०१ गुणसागरो गिरिप्रदीपो नवमु अभूदयात्र जिनसूर्यः । आरागितश्चरमु तेषां रतनशिरीप्रदीपगुणकेतुः ॥ ८३ ॥ यद निष्क्रमी स दुपदेन्द्रो रतनशिरिप्रदीपगुणकेतुः । शशिवक्रदेवि अहमासी निष्कममाणु पूजिय नरेन्द्रम् ॥ ८४ ॥ सो मे अनालयवियूह प्रणिधिसमुद्रसंभववियूहम् ।। सूत्रं निगर्जसु नरेन्द्रः श्रुत्व मि धारितं स्मृतिवलेन ॥ ८५ ॥ लब्धा मया विपुलचक्षुःशान्तसमाधि धारणिबलं च । पश्याम्यहं जिनसमुद्रान् क्षेत्रपरंपरा क्षणक्षणेन ।। ८६ ॥ जातं हि मे करुणगर्भा मैत्रिनयं समन्तप्रभमेघम् । बोधाय चित्तु नभतुल्य बुद्धबलाप्रमाणविपुलाभम् ॥ ८७ ॥ दृष्ट्वा जगद्विपरियस्तं नित्यसुखप्रभासभिनिविष्टम् । मोहार्थविद्यतमछन्नं क्लेशसमाकुल वितथसंज्ञि ॥ ८८ ॥ दृष्टीगता गहनचार तृष्णवशानुगं विषमकर्म । गतिषू अनेकविधरूपां कर्मविचित्रितां समुदयन्तम् ॥ ८९ ॥ सर्वगतिच्युतिमुखेभिर्ये उपपत्तिभिः समुपपन्नाः। जातीजरामरणपीडां कायिकचैतसिकामनुभवन्ति ॥९० ॥ तेषां तदा हितसुखार्थ चित्तमनुत्तरं समुपपन्नम् । यत्र संभवो दशबलानां यात्तुक सर्वक्षेत्रप्रसरेषु ॥ ९१ ॥ ततः संभुतः प्रणिधिमेघः सर्वजगत्सुखप्रवणगर्भः । संभारसंभव अनन्ता मार्गसमुद्रनयअनुगतश्च ॥ ९२ ॥ प्रस्थानमेघविपुलाभः सर्वपथप्रसन्नमुखवेगः । विपुलांश्च पारमितमेघान् मुश्चिषु धर्मधातुप्रसरेषु ॥ ९३ ॥ भूम्याक्रमो विपुलवेगः सर्वत्रियध्वसागरनयेषु । भूमिष्वसङ्गगतिचारी एकक्षणेन सर्वजिनगामी ॥ ९४ ॥ अपि चाप्यहं सुगतपुत्र चर्य समन्तभद्र अवक्रान्ता ।
दश धर्मधातुतलभेदास्तेष समुद्रनयमवतरामि ॥ ९५॥ तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विशांपतिर्नाम राजाभूच्चक्रवर्ती बुद्धवंशानुपच्छेदाय स्थितः ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । मञ्जुश्रीः कुमारभूतः तेन कालेन तेन समयेन विशांपतिर्नाम राजा अभूच्चक्रवर्ती बुद्धवंशानुपच्छेदाय प्रतिपन्नः । यया चाहं रात्रिदेवतया प्रबोधिता, सा समन्तभद्रेण बोधिसत्त्वेन निर्मिता । 30 तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन भद्रमतिर्नाम चक्रवर्तिभार्या अभूत् स्त्रीरत्नम् ? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन भद्रमतिर्नाम
गण्ड. २६ .
B 105
.