________________
२००
%259
गण्डव्यूहसूत्रम् ।
[३६.६८सारोचयश्च तद कल्पस्तत्र उत्पन्न बुद्ध शतपश्च । ते सर्वि सत्कृत स्वयंभू एत विमोक्ष समभिलपत्या ॥ ६८ ॥ गुणमण्डलः प्रथमु नाम्ना शान्तनिर्घोप सागरशिरिश्च । आदित्यतेज गिरिराजो लक्षणमेरु मेघरुतघोषः ॥ ६९ ॥ धर्मेन्द्रराज गुणराजः पुण्यसुमेरु शान्तप्रभराजः । एतान् दश प्रमुख कृत्वा सर्वि ति पूजिता मय नरेन्द्राः ।। ७० ॥ माणु विशोधितु जिनानां यत्र समोसरी जिन अशेषा । न च ताव लब्ध मय क्षान्तिर्या इममोतरे नयु जिनानाम् ॥ ७१ ॥ तदनन्तरं सुरुचिराभः शान्तनिर्घोषहारमतिनामा । अत्र लोकधातु परिशुद्धो अल्पकिलेशसत्त्वअधिवासः ॥ ७२ ॥ कल्पः सुखाभिरतिनामा यत्र अशीति बुद्धनयुतासन् । ते सर्वि पूजिता मय नरेन्द्रा मार्गु विशोधितो जिनवराणाम् ॥ ७३ ॥ प्रथमो जिनः कुसुमराशिः सागरगर्भ संभवगिरिश्च । देवेन्द्रचूड मणिगर्भ काञ्चनपर्वतो रतनराशिः ॥ ७४ ॥ धर्मध्वजोऽथ वचनश्रीः पश्चिमु तेषु ज्ञानमति बुद्धः । एतान् दश प्रमुख कृत्वा पूजित ते मया सुरनरेन्द्राः ॥ ७५॥ अर्वागभूत्तदनु अस्ति क्षेत्र सुनिर्मितध्वजप्रदीपम् । कल्प सहस्रशिरिनामा तत्र य बुद्धकोटिनयुतानि ॥ ७६ ॥ शान्तध्वजः शमथकेतुः शान्तप्रदीप मेघशिरिराजः । ओभासयन्तप्रभराजा मेघविलम्बितः सुरियतेजा ॥ ७७ ॥ धर्मप्रदीपशिरि मेरुआर्चशिरिश्च देवशिरिगर्भः । तेषां च पश्चिमकु आसीत् सिंहविनर्दितो विदुप्रदीपः ॥ ७८ ॥ एतान् दश प्रमुख कृत्वा पूजित ते मया सुगतचन्द्रा । न च ताव लब्ध मय शान्तिर्या इममोतरे नयसमुद्रम् ॥ ७९ ॥ अर्वागतस्तदनु अस्ति क्षेत्र समन्तआभशिरिनाम्नि । कल्पो अनालयवियूहस्तत्र षड्विंशगुद्धनयुतानि ॥ ८० ॥ प्रथमः समन्तगुणमेघस्तत्समनन्तरं गगनचित्तः। बुद्धः सुसंभववियूहो गर्जितधर्मसागरनिर्घोषः ॥ ८१ ॥ जिनु धर्मधातुखरघोषो निर्मितमेघसुखरशिरिश्च । बुद्धः समन्तदिशतेजा धर्मसमुद्रसंभवरुतश्च ॥ ८२ ॥
15
30.
Bशिरिरराजो.