________________
३६.६७]
B 104
३६ प्रमुदितनयनजगद्विरोचना। गन्धर्वराज प्रथमोऽभू द्वितीयु अभूषि बुद्रुमराजः । तृतियु जिनो गुणसुमेरुस्तत्समनन्तरं रतननेत्रः ॥ ५३ ॥ वैरोचनप्रभवियूहो धर्मसमुद्रतेजशिरि बुद्धः । लोकेन्द्रतेजशिरिभद्रः पश्चिमु सर्वधर्मप्रभराजः ॥ ५४ ॥ एतान् दश प्रमुख कृत्वा पूजित ते मया सुगत सर्वे । न तु ताव लब्ध मय ज्ञानं सद्धर्मसमुद्र येनवतरेयम् ॥ ५५ ॥ तदनन्तरं सुपरिशुद्धं वज्रमणिअभेद्यदृढतेजः। क्षेत्रं समन्तप्रभमेघ नैकवियूहसंस्थितविचित्रम् ॥ ५६ ॥ यस्मिन् विशुद्ध बहुसत्त्वाः कल्यतराः किलेशमलकृष्टाः । कल्प प्रशान्तमतितेजाः बुद्धसहस्रसंभव वियूहा ॥ ५७ ॥ प्रथमो जिनो वजिरनाभि द्वितीयु अभूदसङ्गबलधारी।। जिनु धर्मधातुप्रतिभासः सर्वदिशप्रदीपप्रभराजः ॥ ५८ ॥ जिनु पञ्चमः करुणतेजा पष्ठ अभू जिनो व्रतसमुद्रः। जिनु शान्तिमण्डलप्रदीपो अष्टम धर्ममण्डलप्रभासः ॥ ५९ ॥
ओभाससागरवियूहः पश्चिमु तेष प्रशान्तप्रमराजः । एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्रा ॥ ६० ॥ न च मेप धर्मत विबुद्धा गगनसमा खभावपरिशुद्धा । यत्र स्थिहित्व विचरेयं चारिक सर्वक्षेत्रप्रसेरेषु ॥ ६१ ॥ तदनन्तरं च रमणीयं गन्धप्रदीपमेघशिरि नाम । क्षेत्रं किलिष्टपरिशुद्धं कल्पु सुसंभवस्तद बभूव ।। ६२ ॥ उत्पन्न तत्र जिनकोटिस्तेभि वियूहितस्त दशकल्पः । ते नायका भणिय धर्मा सो मय धारित स्मृतिबलेन ॥ ६३ ॥ प्रथमो जिनो विपुलकीर्ति धर्मसमुद्रवेगशिरिराजः। धर्मेन्द्रराज गुणघोष धर्मशिरिश्च देवमकुटश्च ॥ ६४ ॥ ज्ञानार्चितेजशिरिनामा सप्तमु तेष आसि दुपदेन्द्रः । जिनु अष्टमो गगनघोषो नवमु समन्तसंभवप्रदीपः ॥६५॥ तेषां च पश्चिमकु बुद्धो ऊर्णशिरिप्रभासमतिनामा । ते सर्वि पृजित नरेन्द्रा मार्ग न चैष शोधितु असङ्गः ॥ ६६ ॥ तदनन्तरं वरवियूहा रत्नविचित्रसंस्थितशरीराः।। रतनध्वजाग्रमतिनामा पश्चिम लोकधातु सुविभक्ता ॥ ६७॥
15
8258
20
१B वनवियूहा.