________________
S 257
10
15
20
25
30
१९८
गण्डव्यूहगुज्म् !
प्रथमो जिनः शिरिसमुद्रस्तत्समनन्तरं गुणप्रदीपः । तृतीयो जिनो रतनकेतुर्बुद्ध चतुर्थ भूद्गगनप्रज्ञः ॥ ३८ ॥ जिन पञ्चमः कुसुमगर्भः षष्ठु जिनो असङ्गमतिचन्द्रः । जिनु धर्मचन्द्रप्रभुराजो अष्टमु ज्ञानमण्डलप्रभासः || ३९ ॥ रचनार्चि पर्वतप्रदीपो नवम् अभूपि तत्र द्विपदेन्द्रः । दशमस्त्रियध्वप्रभघोषस्ते मय पूजिता प्रमुदिताया ॥ ४० ॥ एतान् दश प्रमुख कृत्वा सर्वि त पूजिता नरवरेन्द्रा | न च ताव लब्ध मय चक्षुर्येनि ममोत्तरि नयसमुद्रभू ॥ ४१ ॥ सर्वाङ्गतस्तदनु सत्त्वक्षेत्रमभूपि सर्वरतनाभम् ।
कल्पश्च देवशिरिनामा तत्र उत्पन्न बुद्ध शतपञ्च ॥ ४२ ॥ शशिमण्डलाभु प्रथमोऽभू द्वितीय अभूपि भास्करप्रदीपः । ज्योतिध्वजस्तृतीयु बुद्धस्तस्य अनन्तरं मणिसुमेरुः ॥ ४३ ॥ कुसुमार्चिसागरप्रदीपो ज्वलनशिरीष देवशिरिगर्भः । ओभासराज प्रभकेतुर्दशभु समन्तज्ञानप्रभराजः ॥ ४४ ॥ एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्राः । स्कन्धालयेऽभिरतया मे धर्मि अनालये निलयबुद्ध्या ॥ ४५ ॥ अर्वागतस्तदनु ** धर्मप्रदीप मेघशिरिनामा । अत्र लोकधातु सुविचित्रः कल्प तदासि ब्रह्मप्रभनामा ॥ ४६ ॥ तस्मिन् जिना अपरिमाणाः ते मय पूजिताः सपरिवाराः । सर्वेष तेष सुतानां धर्म श्रुतो मि गौरविं जनित्वा ॥ ४७ ॥ प्रथमो जिनो रतनमेरुस्तत्समनन्तरं गुणसमुद्रः । जिनु धर्मधातुखरकेतु धर्मसमुद्रगर्जन चतुर्थः ॥ ४८ ॥ धर्मव्वजो धरणितेजा धर्मबलप्रभो गगनबुद्धिः । धर्माचिमेरुशिखराभः पश्चिम तेषु मेघशिरिनामा ॥ ४९ ॥ एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्रा । न च मे धर्म विबुद्धा येनिम ओतरि जिनसमुद्रान् ॥ ५० ॥ तदनन्तरं सुगत आसी सूर्य प्रदीपकेतुशिरिनामा । क्षेत्रा स बुद्धमति नाम्ना तत्र अभूच्च सोमशिरिकल्पः ॥ ५१ ॥
| ३६.३८
तस्मिन्नशीतिनयुतानां या मय पूजिता दशबलानाम् । विविधैरनन्तविपुलेभिः पूजमुखेभिर्नैकरुचिरेभिः ॥ ५२ ॥