SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ -३६.३७] ३६ प्रमुदितनयनजगद्विरोचना। १९७ पृथिवी प्रकम्पित सशैला घोष निगार्जि ते जिन उत्पन्नो । देवासुरा मनुजनागाः सर्वि प्रहर्षि ते जिन उत्पन्नः ॥ २३ ॥ बुद्धस्य निर्मितसमुद्रा निश्चरि सर्वरोमविवरेभ्यः । ते चो दशदिशि फरित्वा लोकि यथाशये भणिषु धर्मम् ॥ २४ ॥ तांश्चो विकुर्वित अनन्तान् सुपिनि जिनो निदर्शि मम सर्वान् । गम्भीर गर्जित श्रुणित्वा प्रीति ममा अभूषि सुपिनान्ते ॥ २५॥ दश रात्रिदेवतसहस्रा उपरि मम स्थिता नमतलस्मिन् । वर्णानुदीर्यन्त जिनस्य दिव्यरुतेन मां भणि प्रबोध्य ॥ २६ ॥ उत्तिष्ठ देवमतिभायें एष जिनोपपन्न तव राज्ये । कल्पान सागरशतेभि दुर्लभ संपश्यन् सुखि विशुद्धो ॥ २७ ॥ अह प्रीतिसंभुत विबुद्धा पश्यमि आम निर्मल विशुद्धाम् । संपश्यऽक्षण इयमाभा पश्यमि वुद्ध बोधिद्रुमराजे ॥ २८ ॥ द्वात्रिंशलक्षणविचित्रो रश्मिसमुद्र ओसरितु रोमात् । अभ्युद्गतो यथ सुमेरु दक्षिणवामतो जिन समन्तात् ॥ २९ ॥ दृष्ट्वा मम प्रमुदितायाश्चित्तमुत्पन्नमीदृश भवेयम् । ____15 प्रणिधिश्च मे कृतु उदारो बुद्धविकुर्वितं विपुल दृष्ट्वा ॥ ३० ॥ प्रतिबोधितः स मय राजा इस्त्रिगणश्च योऽस्य परिवारम् । बुद्धप्रभा विपुल दृष्ट्वा सर्वि अभूषि प्रीणितशरीराः ॥ ३१ ॥ उपसंक्रमी जिनसकाशं स्वामिन सार्ध याननयुतेभिः । बहुप्राणिकोटिनयुतेभिः संपरिवारितः सबलकायः ॥ ३२ ॥ पूजा कृता मयि जिनस्यो वर्षसहस्र विशति अनूना । निर्यातिता रतन सप्तो पृथिवी ससागरा च सुगतस्य ॥ ३३ ॥ सूत्रासमुद्र गुणमेघान् प्रणिधिसमुद्र संभववियूहान् । सांस्तथागतप्रभवान् देशयते यथाशय जगस्मिन् ॥ ३४॥ सा रात्रिदेवत हितार्थ बोधयि मां तदा करुणजाता। तस्यां मम स्पृह उत्पन्ना ईदृश भूत्व बोधयि प्रमत्तान् ॥ ३५॥ एतन्मम प्रणिधिचित्तं प्रथममुपपन्नमग्रवरबोधौ । संसारसागरगताया नो मम निश्चिता भवसमुद्रः ॥ ३६॥ दश बुद्धकोटिनयुतानि ये मम पूजिता जनिय श्रद्धाम् । संसारि देवमनुजेषू विषयरतिसुखान्यभिलषन्त्या ॥ ३७ ॥ 15 8256 नाम १ B भद्रमति.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy