________________
S 254
B 103
8 255
5
10
115
20
25
गण्डव्यूहमुत्रम् ।
[ ३६.११
अथ खलु सुधनः श्रेष्ठिदारकः प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य एतदवोचत् कियच्चिरं संस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ ? कियच्चिरप्रतिलब्धायं त्वया देवते समन्तभद्रप्रीति विपुल विमलवेगध्वजो बोधिसत्त्वविमोक्ष इति ॥
30
१९६
अथ खलु प्रमुदितनयनजगद्विरोचना रात्रिदेवता सुधनं श्रेष्ठिदारकं गाथाभि
रव्यभाषत-
स्मरामि अतीत बहुकल्पान् क्षेत्ररजोपमास्तत परेण । क्षेत्रं मणिप्रभसुखाभं तत्र प्रशान्तघोषु अनुकल्पः ॥ ११॥ दशचातुर्व्वीपनयुतानां कोटिशतसहस्र परिपूर्णम् । मणिपर्वताभपरिमाणं मध्यम चातुर्द्वीप सुविचित्रम् ॥ १२ ॥ दशराजधानिनयुतानां कोटिशतैः सहस्रपरिपूर्णम् । गन्धध्वजा मणिप्रभासा मध्यमराजधानि रमणीया ॥ १३ ॥ तस्यां विशांपतिरभूषी पार्थिवचक्रवर्तिरभिरूपो । द्वात्रिंशलक्षणसमङ्गी सोऽनुव्यञ्जनै रचितगात्रः ॥ १४ ॥ उपपादुको पदुमगर्भे काञ्चनवर्णसुप्रभशरीरो ।
जम्बुध्वजं सकलु सर्व स्फरति प्रभाय सो गगनचारी ॥ १५ ॥ पुत्राण तस्य परिपूर्ण शूरवराङ्गरूपिण सहस्रा ।
कोटी अमात्य परिपूर्णा पण्डित दक्ष विद्ध मेधावी ॥ १६ ॥
दश इस्त्रिकोटि परिपूर्णाः अप्सरसादृशा रतिविधिज्ञा । ताः स्निग्धचित्त हितचित्ता मैत्रमना उपस्थिहिषु राज्ञः ॥ १७ ॥
सोचो महापृथिवीराजा पर्वतचक्रवालपरियन्ताः । चत्वार द्वीप सुसमृद्धा धर्मबलेन आवसति सर्वान् ॥ १८॥
अद्दु चक्रवर्तिवरभार्या ब्रह्मरुतस्वरा रचनकाया । विमलप्रभा कनकवर्णा स्फरमि प्रभाय योजनसहस्रम् ॥ १९ ॥ अस्तं गते दिनकररश्मि खपिति नृपे सपुत्रपरिवारैः । संगीतिघोष उपशान्ते शयनगता अद्दु सुखप्रसुप्ता ॥ २० ॥
रात्रिमध्यमकि यामे बुद्ध उत्पन्नु भू शिरिसमुद्रः । तस्मिन् विकुर्वित अनन्ता दर्शि जिनो दशद्दिशि फरित्वा ॥ २१ ॥ तान् सर्वक्षेत्ररजतुल्यानो सिरिपूजितः प्रभसमुद्रान् । नानाविकुर्वितशरीरान् येहि फरी दिशो दश अशेषाः ॥ २२ ॥