________________
-३६.१० ]
३६ प्रमुदितनयनजगद्विरोचना ।
१९५
विमोच्यमानानपश्यत् । अनन्तमध्यं सत्त्वधातुं देवमनुष्यसंपत्तौ प्रतिष्ठाप्यमानानपश्यत् । अनन्तमध्यान् सत्त्वसमुद्रान् संसारसागरादुच्चाल्यमानानपश्यत् । अनन्तमध्यान् सत्त्वसमुद्रान् श्रावकप्रत्येकबुद्धभूमौ प्रतिष्ठाप्यमानानपश्यत् । प्रतिचित्तक्षणमनन्तमध्यान् सत्त्वसमुद्रान् दशभूमावावर्तमानान् सुधनः श्रेष्ठिदारकः पश्यति स्म, शृणोति व्यवचारयति अवचरति प्रतिविध्यति निध्यायति अनुगच्छति अनुसरति अनुप्रविशति समतयाधितिष्ठति यदुत प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अचिन्त्यस मन्तभद्रप्रीतिविपुलध्वजबोधिसत्त्वविमोक्षविकुर्वितवृपभितानुभावेन पूर्वसभागचरितत्वात्तथागताधिष्ठानाधिष्ठितत्वादचिन्त्यकुशलमूलपरिपाकेन समन्तभद्रायाश्च वोधिसत्त्वचया भाजनीभूतत्वात् ॥
अथ खलु सुधनः श्रेष्ठिदारको महाबोधिसत्त्वप्रीतिवेग सागराव भासप्रतिलब्ध दशदिक्तथागताधिष्ठितः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पुरतः प्राञ्जलिः 10 स्थित्वा प्रमुदितनयन जगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभ्यष्टौपीत्
गम्भीरधर्मत जिनानां यत्र सुशिक्षितास्यमितकल्पान् । दशदिशि लोकि अनुपूर्वं रूप यथाशयं जगु फरित्वा ॥ १ ॥ ज्ञात्वा निरात्मकमनाथं वितथ विसंज्ञिनं सततभ्रान्तम् । ऋद्ध्या अनेकविध कायैश्वर्य विदर्शत्व जगु विनेसि ॥ २ ॥ अत्यन्तविज्वर प्रशान्ता धर्मशरीर अद्वयविशुद्धा | द्वयानिश्रितं जगशेषं निर्मितमेघगर्जन विनेसि ॥ ३ ॥ न च स्कन्धआयतनधातौ निश्रयु तुभ्य विद्यति कदाचित् । सर्वाङ्गपूर्णवररूपैश्वर्यं निगर्जनैर्जगु विनेसि ॥ ४ ॥ अध्यात्मवाहिरविमुक्ता उच्चलिता द्वयोद्भवसमुद्रात् । संसारसागरि अनन्तान् दर्शय से गतीषु प्रतिभासान् ॥ ५ ॥ न च तुभ्य इञ्जन कदाचिन्मन्यन स्यन्दना न च प्रपञ्चा । लोके प्रपञ्चरतबालान् धर्मस्वभाव दर्शयि विनेसि ॥ ६॥ एकाग्रचित्त वहुकल्पान् सर्वसमाधिसागरविहारैः । पूजार्थमुत्सृजसि रोम्ना निर्मितमेघ दिक्षु सुगतानाम् ॥ ७ ॥ बुद्धबलनयप्रवेशानोतरसि प्रतिक्षणमनन्तान् । सर्वान् संग्रहप्रयोगं दर्शय से यथास्वमवतारैः ॥ ८ ॥ व्यवलोक्य त्वं भवसमुद्रं कर्मविचित्रितं विविधरूपान् । धर्मेष्वनावरणमार्गं देशयती विशोधयसि सत्त्वान् ॥ ९ ॥ रूपं ति लक्षणविचित्रं शुद्ध समन्तभद्रचरणेन । सत्त्वानामाशयवशात्वं देवत रूप दर्शयसि लोके ॥ १० ॥
15
20
25
33
S 253