SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ३७ समन्तसत्त्वत्राणोजाश्रीः। अथ खलु सुधनः श्रेष्ठिदारकः तत् प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वविमोक्षमधिमुच्यमानोऽवतरन् , अधिगच्छन् प्रविशन् प्रसरन् स्फरमाणोऽनुगच्छन् अनुसरन् प्रतिलभमानो भावयन् परिभावयन् कल्याणमित्रानुशासनीं प्रतिपद्यमानोऽववादानुशासनीनिर्देशानन्तर्यतायै प्रमुदितनयनजगद्विरोचनाया । रात्रिदेवतायाः संप्रेषणानुशासनीमनुस्मरन् , कल्याणमित्रदर्शनानुगतेन सर्वेन्द्रियमण्डलेन समन्तदिगभिमुखेन कल्याणमित्रदर्शनप्रतिलाभसमुदाचारेण सर्वमानविगतेन कल्याणमित्रगवेपणमनसिकारेण महासंभारसंभवव्यवसितेन कल्याणमित्रारागणविक्रमेण कल्याणमित्रकोतीभावगतैः सर्वकुशलमूलैः कल्याणमित्रसर्वोपायकौशल्यचरितेष्वभेद्याशयप्रतिपन्नः कल्याणमित्रसंनिश्रयसंवर्धनमहावीर्यवेगसागरसंजातः सर्वकल्पकल्याणमित्रसमतानुगतसंवासप्रणिधानः 10 समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया अन्तिकमुपसंक्रान्तः ॥ ___ तस्योपसंक्रामतः समन्तसत्त्वत्राणोजःश्री रात्रिदेवता सर्वलोकाभिमुखजगविनयनिदर्शनानन्तबोधिसत्त्वविमोक्षवृपभितासंदर्शनार्थं विचित्रलक्षणानुव्यञ्जनपरिनिष्पन्नकार्य संदर्य ऊर्णकोशात्समन्तज्ञानार्चिःप्रदीपविमलज्योतिध्वजं नाम रश्मि प्रामुञ्चदनन्तमध्यरश्मिपरिवारम् । स सर्वलोकंमवभास्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि निपत्य सर्वशरीरमनुस्फरति 15 स्म । समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्तेन रश्मिना, अथ तावदेव अत्यन्तविरजोमण्डलं नाम समाधि प्रत्यलभत, यस्य प्रतिलाभात्प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः समन्तसत्त्वत्राणोजःश्रियश्च रात्रिदेवताया मार्गान्तरे यत्पृथिवीमण्डलं तत्र यावन्ति तेजःपरमाणुरजांसि वा अप्सु परमाणुरजांसि वा पृथिवीपरमाणुरजांसि वा वज्रपरमाणुरजांसि वा विविधमहामणिरत्नरजःपरमाणुरजांसि वा पुष्पगन्धचूर्णपरमाणुरजांसि वा रत्नव्यूहपरमाणुरजांसि 20 S 283 या सर्वारम्बणपरमाणुरजांसि वा, तेषु सर्वेषु परमाणुरजःसु एकैकस्मिन् परमाणुरजसि बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् संवर्तमानान् विवर्तमानांश्चापश्यत् । साप्स्कन्धान् सतेजःस्कन्धान् सवायुस्कन्धान् सपृथिवीस्कन्धान समलोकधातुसत्त्वान् साधिष्ठानान् नानासंस्थानान् संप्रतिष्ठानान् नानापृथिवीतलव्यूहान् नानापर्वतपरिवारान् नानानदीतडागव्यूहान् नानासागरपरिसंस्थानान् नानादिव्यविभक्तिभवनव्यूहान् नानावृक्षसंस्थानान् नानागगना- 25 लंकारान् , सदेवनगरभवनालंकारान् सनागनगरभवनालंकारान् सयक्षनगरभवनालंकारान् सगन्धर्वनगरभवनालंकारान् सासुरनगरभवनालंकारान् सगरुडनगरभवनालंकारान् , सकिनरनगरभवनालंकारान्, समहोगनगरभवनालंकारान् , समनुष्यनगरभवनालंकारान् , ससर्वदिग्विदिग्व्यवस्थानसर्वसत्त्वनगरभवनालंकारान्, सनरकलोकगतिविषयान्, सतियग्योनिलोकविषयान्, सयमलोकविषयान् , समनुष्यगतिव्यवचारच्युत्युपपत्तिविषयान् , 30 नानोपपत्त्यभिसंभिन्नान्, अनन्तगतिभेदसमवसरणान् । तेषु च लोकधातुषु विमात्रतामद्राक्षीत् । यदुत कांश्चिल्लोकधातून् संक्लिष्टानपश्यत् । कांश्चित्परिशुद्धान्, कांश्चिदेकान्त B100
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy