SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 8248 १९२ गण्डव्यूहसूत्रम् । [३६.०त्पादसंभाराः कल्याणमित्रारागणप्रयोगाः तथागतपादमूलोपसंक्रमणपूजोपस्थानप्रयोगाः कुशलधर्मचर्याभियोगप्रयोगाः, ये च दानपारमिताचर्यादुष्करपरित्यागाः, शीलपारमितापरिशोधनप्रयोगाः, महाराज्यैश्वर्यपरिवारभोगाधिपत्यपरित्यागाभिनिष्क्रमणप्रयोगाः, ये लोके दुष्करचर्या महाव्रततपोमण्डलक्षान्तिनिर्हाराः, या बोधिसत्त्वव्रतसमादानप्रयोगाकम्प्यता, ये बोधिसत्त्वदृढ5 समादानधर्मसमुद्राः सर्वसत्त्वधातुदुष्कृतदुर्भाषितदुश्चिन्तिताधिवासनप्रयोगाः, कायिकचैतसिकपीडाधिवासनप्रयोगाः, या सर्वकर्माविप्रणाशधर्मताक्षान्तिः सर्वधर्माधिमुक्तिक्षान्तिः सर्वधर्मखभावनिध्यानशान्तिः, यत् सर्वज्ञतारम्भप्रयोगवीर्यम् , यत् सर्वबुद्धधर्मपरिनिष्पादनवीर्यम् , याः सर्ववीर्यपारमिताचर्याः, ये ध्यानपारमितासंभाराः ध्यानपारमिताभियोगाः ध्यान पारमितापरिनिष्पत्तिविशुद्धिचर्याः, यानि बोधिसत्त्वसमाधिप्रतिलाभविकुर्वितानि, ये समाधि10 मुखसमुद्रावताराः, यानि ध्यानपारमिताचरितानि, ये प्रज्ञापारमितासंभाराः, ये बोधिसत्त्वमहाप्रज्ञादित्यमण्डलविशोधननयाः, ये महाप्रज्ञामेघसंभवाः, ये प्रज्ञानिधानसंभाराः, ये महाप्रज्ञामहासागरव्यवचारणनयप्रयोगाः, ये महोपायकौशल्यनयप्रयोगाः, ये महोपायकौशल्यपरिशुद्धिसंप्रयुक्ताः पूर्वयोगाः, यानि बोधिसत्त्वमहाप्रणिधिपारमिताशरीराणि, या महाप्रणिधिपारमितापरिनिष्पत्तयः, यानि महाप्रणिधानपारमिताचरितानि, ये महाप्रणिधानपारमिता15 संप्रयुक्ताः पूर्वयोगाः, ये बलपारमिताप्रतिलाभमहासंभाराः, ये बलपारमिताप्रत्ययाः, ये बलपारमितानयमहासागराः, ये बलपारमितानिर्देशाः, ये बलपारमितासंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमितानयाः, ये ज्ञानपारमिताप्रयोगाः, ये ज्ञानपारमिताविशुद्धिनयाः, या ज्ञानपारमितादिशः, ये ज्ञानपारमितानुगमाः, ये ज्ञानपारमिताप्रसराः, यानि ज्ञानपारमितानयसमवसरणानि, ये ज्ञान पारमिताविज्ञप्तिनयाः, यानि ज्ञानपारमिताप्रसरानुसरणानि, यानि ज्ञानपारमितास्फरणानि, 20 ये ज्ञानपारमिताप्रविस्तराः, ये ज्ञानपारमिताकायाः, ये ज्ञानपारमितासमुद्रनयाः, ये ज्ञानपारमितापरिनिष्पत्तिसंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमिताचर्याप्रकारप्रविचयप्रवेशसंभवसमुदागमाः, ये ज्ञानपारमितासमवसरणनयसंप्रयुक्ता धर्माधर्मसंग्रहधर्मज्ञानानुगमाः कर्मज्ञानानुगमाः क्षेत्रज्ञानानुगमाः कल्पज्ञानानुगमाः त्र्यध्वज्ञानानुगमाः बुद्धोत्पादज्ञानानुगमा बुद्धज्ञानानुगमा बोधिसत्त्वज्ञानानुगमा बोधिसत्त्वचित्तसंभवज्ञानानुगमा बोधिसत्त्वव्यवस्थानज्ञानानुगमा बोधिस28 वसंभवज्ञानानुगमाः,बोधिसत्त्वप्रस्थानज्ञानानुगमाः, बोधिसत्त्वप्रणिधिज्ञानानुगमाः, बोधिसत्वधर्मचक्रज्ञानानुगमाः, बोधिसत्त्वधर्मप्रविचयज्ञानानुगमाः, बोधिसत्त्वधर्मसागरनयज्ञानानुगमाः, बोधिसत्त्वधर्मसमुद्रज्ञानानुगमाः, बोधिसत्त्वधर्मपरिवर्तज्ञानानुगमाः, बोधिसत्त्वधर्मनिधानज्ञानानुगमाः, बोधिसत्त्वधर्मगतिज्ञानानुगमाः, ये प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया यावदनन्तमध्यारम्बणज्ञानपारमितासंप्रयुक्ता बोधिसत्त्वधर्माः, तानस्याः सर्वरोमविवरेभ्य 30 एकैकरोमविवरविसृतनानावर्णसत्त्वकायमेघनिश्चरितान् सत्वान् परिपाचयमानानपश्यत् । यदुत अकनिष्ठसुदर्शनसुदृशातपोबृहच्छुद्धावासदेवसदृशकायमेधनिश्चरितान् सत्त्वान् परि 8249 - - १Bom. ये ध्यानपारमितासंभाराः,
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy