________________
१९१
-३६..]
३६ प्रमुदितनयनजगद्विरोचना। बलप्रवेशाप्रतिप्रनब्धतां संवर्णयमानान् , प्रतिचित्तक्षणं सर्वलोकधातुसमुद्रपरमाणुरजःसमसर्वधर्मधातुनयसागरावतरणाप्रतिप्रस्रब्धीः संदर्शयमानान् , सर्वक्षेत्रेष्वपरान्ताधिष्ठानकल्पसंबाससर्वज्ञतामार्गविशुद्धिसंप्रकाशनाप्रतिप्रस्रब्धतां संवर्णयमानान्, 'प्रतिचित्तक्षणं तथागतबलप्रवेशाप्रतिप्रस्रब्धतां संदर्शयमानान् , सर्वत्र्यध्वनयसागरावताराप्रतिप्रस्रब्धतां संदर्शयमानान् , बोधिसत्त्वसर्वक्षेत्रर्द्धिविकुर्वितसंदर्शनाप्रतिप्रस्रब्धतां संदर्शयमानान् , बोधिसत्त्वप्रणिधानचर्या- 5 संदर्शनेन सर्वसत्त्वान् सर्वज्ञतायां प्रतिष्ठापयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च एकैकस्मादोमविवरात् सर्वजगच्चित्तसमान् कायनिर्माणमेघानिश्चरित्वा सर्वसत्त्वाभिमुखस्थितानपर्यन्तं सर्वज्ञतासंभारबलं संदर्शयमानान्, अभेद्यापर्यादत्ताविनाशधर्मसर्वज्ञताचित्तबलं संदर्शयमानान्,अविवाप्रत्युदावाधिष्ठानाप्रतिप्रस्रब्धमनुत्तरसर्वबोधिसत्त्वचर्यासमुदागमबलं संदर्शयमानान् , सर्वसंसारदोषाननुलेपबलतां बोधि-10 सत्त्वानां संवर्णयमानान्, सर्वमारमण्डलविकिरणबलं बोधिसत्त्वानां संदर्शयमानान् , सर्वक्लेशमलाननुलेपक्लेशबलतां बोधिसत्त्वानां संदर्शयमानान् , सर्वकर्मावरणपर्वतविकिरणबलं बोधिसत्त्वानां संदर्शयमानान् , सर्वकल्पसंवासबोधिसत्त्वचर्यापरिखेदमहाकरुणाबलं बोधिसत्त्वानां संदर्शयमानान् , सर्वबुद्धक्षेत्रसंप्रकम्पनसंक्षोभणसर्वसत्त्वसंप्रहर्षणबलं बोधिसत्त्वानां संदर्शयमानान् , सर्वमारपरप्रवादिगणप्रमर्दनबलं बोधिसत्त्वानां संदर्शयमानान् , महाधर्मचक्र-15_5247 प्रवर्तनज्ञानबलं लोके प्रभावयमानान्, सर्वसत्त्वान् सर्वज्ञतायां परिदीपयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगचित्तसमादानानन्तवर्णकायनिर्माण- B 100 समुद्रमेघान्निश्चरित्वा दशदिगनन्तसत्त्वधातुस्फरणान् यथाशयाधिमुक्तानां सत्त्वानां बोधिसत्त्वचर्याज्ञानविक्रम संदर्शयमानान् , सर्वसत्त्वधातुसमुद्रावतरणज्ञानं संदर्शयमानान् , सर्वसत्त्वचित्तसमुद्रावतरणज्ञानं संदर्शयमानान् , सर्वसत्त्वेन्द्रियसागरपरिज्ञाज्ञानं संदर्शयमानान् , 20 सर्वसत्त्वचर्यासमुद्रावतरणज्ञानं संदर्शयमानान् , सर्वसत्त्वपरिपाकविनयकालानतिक्रमणज्ञानं संदर्शयमानान् , सर्वधर्मधात्वानुरवणज्ञानं संदर्शयमानान् , प्रतिचित्तक्षणं सर्वधर्मधातुज्ञाननयसागरस्फरणज्ञानं संदर्शयमानान् , सर्वलोकधातुसमुद्रसंवर्तविवर्तज्ञानं संदर्शयमानान्, सर्वलोकधातुप्रतिष्ठानसंस्थानव्यूहविकल्पज्ञानं संदर्शयमानान्, सर्वतथागतपूजाविकुर्वितोपसंक्रमणपूजोपस्थानधर्मचक्रमेघसंप्रतीच्छनज्ञानं संदर्शयमानान् , एवं ज्ञानपारमिताचर्यासंदर्श- 25 नेन सत्त्वानां प्रीतिं संजनयमानानपश्यत्। चित्तं प्रसादयमानान् प्रामोद्यमुत्पादयमानान् हर्ष संजनयमानान् दौर्मनस्यं विनिवर्तयमानान् चित्तं विशोधयमानान् चित्तकल्यतामावर्तयमानान् , इन्द्रियाण्युत्तापयमानान् अधिमुक्तिबलं संजनयमानान् सर्वज्ञतायामवैवान् कुर्वाणानपश्यत् ॥
यथा च पारमिताचर्यासंदर्शनेन लोके सत्त्वान् परिपाकं व्रजतोऽपश्यत् , तथा सर्वबोधिसत्त्वधर्मनिगर्जनेन ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तो- 30
B100
१ B om प्रति...मानान्.