________________
8245
गण्डव्यूहसूत्रम् ।
[ ३६.०तरब्रह्मचर्य संवर्णयमानान् , सभयं कामलोकमारविषयं संदर्शयमानान् , विगतकामरतीनामपि सर्वलोककामरतिविषयं संदर्शयमानान् , धर्मारामरत्यां सत्त्वान् प्रतिष्ठापयमानान् , अनुपूर्वध्यानसमाधिसमापत्तिसुखान्यभिनिर्हरमाणान् , सर्वसत्त्वसर्वक्लेशनिध्यप्तिचित्ततां संवर्णयमानान् , सर्वबोधिसत्त्वसमाधिसमुद्रविकुर्वणतां संदर्शयमानान् , बोधिसत्त्वाभिज्ञाविकुर्वित5 वृषभितां संदर्शयमानान् , सत्त्वानां प्रीतिं संजनयमानान् , ग्रामोद्यमुत्पादयमानान् , दौर्मनस्यं व्यावर्तयमानान् , चित्तकल्यतामावहयमानान् , चित्तकर्मण्यतां कुर्वाणान् , आशयं विशोधयमानान् , इन्द्रियाण्युत्तापयमानान् , कायसुखं संजनयमानान् , धर्मप्रीतिवेगं विवर्धयमानान् सत्त्वान् परिपाचयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च सर्वोपपत्तिसदृशशरीरान्नानाकायमेघान्निश्चरित्या सर्वक्षेत्रगतसर्व10 सत्त्वाभिमुखाभिरुचितदर्शनतायै सर्वकल्याणमित्रोपसंक्रमणापरिखेदतां संदर्शयमानान् , सर्वाचार्यगुरुकल्याणमित्रोपस्थानपरिचर्यापरिखेदतां संदर्शयमानान्, सर्वतथागतधर्मचक्रप्रवर्तनसंप्रतीच्छनसंधारणापरिखेदवीर्यतां संदर्शयमानान्, सर्वधर्ममुखसमुद्रान् प्रविचिन्वानान् , सर्वबुद्धसमुद्रावतारणनयं संवर्णयमानान् , सर्वधर्मलक्षणखभावनयमभिद्योतयमानान् , सर्वधर्मान् समाधिद्वारं संदर्शयमानान्, सर्वसत्त्वदृष्टिपर्वतनिर्भेदनं प्रज्ञावजं संदर्शय15 मानान् , अनेकचित्तक्षणसमायोगेन सर्वसत्त्वाविद्यान्धकारविधमनप्रज्ञादित्यमण्डलोदागमं संदर्शयमानान् , सर्वसत्त्वप्रीतिसंजननतया सर्वज्ञतायां सत्त्वान् परिपाचयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च सर्वजगत्समानुदाराचिन्त्यनानावर्णविकल्पसंस्थान् आत्मभावनिर्माणमेघान्निश्चरित्वा यथाशयाधिमुक्तसर्वसत्त्वाभिमुखस्थितान् नानारुतमन्त्रसंस्कारनिर्देशैः
सर्वलौकिकपुण्याभिज्ञता संदर्शयमानान् , सर्वलौकिककृत्यप्रचारतश्च सर्वत्रैधातुकसंभवसंदर्शन20 तश्च सर्वत्रैधातुकनिःसरणदिक्संवर्णनतश्च सर्वदृष्टिकान्तारगहननिःसरणदिक्संदर्शनतश्च
सर्वज्ञतामार्गविशेषतां संवर्णयमानान् , श्रावकप्रत्येकबुद्धभूमिपथसमतिक्रम संदर्शयमानान् , संस्कारासंस्कारानुनयप्रतिधानुनयेऽप्रतिघानुनयतां संदर्शयमानान् , संसारनिर्वाणसुखासंनिश्रिततां संदर्शयमानान् , तुषितभवनवासादिपरंपरागमनाप्रतिप्रसब्धि संदर्शयमानान् , बोधि
मण्डप्रस्थानाभिसंबोधाप्रतिप्रलब्धि संदर्शयमानान् , सर्वज्ञतायां सत्त्वान् परिदीपय25 मानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वक्षेत्रपरमाणुरजःसमानात्मभावनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वलोकाभिमुखस्थितान् समन्तभद्रबोधिसत्त्वचर्याप्रणिधानं संवर्णयमानान् , सर्वधर्मधातुविशुद्धिनिष्ठाप्रणिधानवैशेषिकतां संवर्णयमानान् , प्रतिचित्तक्षणं सर्वलोकधातुसमुद्रपरिशुद्धिं संवर्णयमानान् , सर्वतथागतपूजोपस्थानाप्रतिप्रसब्धि संवर्णयमानान्, प्रतिचित्तक्षणं सर्वधर्मनयसागरावताराप्रतिप्रसब्धि संवर्णयमानान्, प्रतिचित्तक्षणं तथागत
१ B adds: सर्वसत्त्वप्रश्नसंशयसमुद्रविनयनतया प्रज्ञाविषयं संदर्शयमानान्. २ B om. बोधि...मानाम्.
8246