________________
24
-३६.०] ३६ प्रमुदितनयनजगद्विरोचना। १८९ त्मिकबाह्यसर्ववस्तुपरित्यागितायै महादुष्करपरित्यागसंदर्शनतायै सर्वलोके यथाशयसत्त्वदानचर्यासंदर्शनतायै त्र्यध्वप्राप्तबोधिसत्त्वाचिन्त्यदुष्करचर्यापरित्यागनिर्माणमेघान्निश्चरित्वा दशसु दिक्षु सर्वलोकधातुप्रसरपर्यापन्नानां सर्वसत्त्वानां विज्ञप्तिमागच्छतोऽपश्यत् यदुताचिन्त्यबोधिसत्त्ववृषभिताविकुर्वितप्रतिलाभेन ॥
सर्वरोमविवरेभ्यः सर्वसत्त्वसमापन्नानौपपत्तिनिर्माणकायमेघान्निश्चरित्वा सर्वलोकधातु- 5 पर्यापन्नान् सर्वसत्त्वान् स्फरित्वा अभिमुखं सर्वव्रतसमादानाकम्प्यतां संदर्शयमानान् सत्त्वधातुसमं नानातपोव्रतमण्डलमुद्योतयमानान् सर्वसर्वलोकनिश्रयतां सर्वविषयानवेक्षतांसर्वसंसारसंवासविमुखतां दिव्यमानुषसंपत्तिविपत्तिसुखसमवसरणतां संदर्शयमानान् अशुभमण्डलमुद्योतयमानान् , शुभसंज्ञाविपर्यासं लोके विनिवर्तयमानान् , अनित्यचलव्ययपरिणामधर्मतां परिदीपयमानान् , दुःखानात्मसर्वसंस्कारधर्मतां संदर्शयमानान् , तथागतविषयसंवासाविप्रवासतां रोचयमानान् , 10 अत्यन्ततथागतशीलपरिशुद्धये सत्त्वान् समादापयमानान् , सर्वसत्त्वयथाशयरुतशीलचयाँ संदर्शयमानान् , सर्वसत्त्वसंतोपणशीलसुगन्धिकतां संदर्शयमानान् , सर्वसत्त्वान् परिपाचयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च सर्वसत्त्वधातुसमापन्नान् नानावर्णात्मभावनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वानां सर्वाङ्गप्रत्यङ्गच्छेदाधिवासनतां संदर्शयमानान् , सर्वसत्त्वकायोत्पीडनोपक्रमणाधिवासनतां संदर्शयमानान् , सर्वसत्त्वासल्यवचनाक्रोशपरिभाषणकुत्सनपंसनताडनतर्जनाधि- 15 वासनतां संदर्शयमानान् , सर्वसत्त्वाक्षोभ्यतां संदर्शयमानान् , सर्वसत्त्वसत्कारानुन्नामावनामतां संदर्शयमानान् , सर्वसत्त्वनिरभिमानतां संदर्शयमानान् , सर्वधर्मखभावक्षान्त्यक्षयताक्षयज्ञानतां संदर्शयमानान् , सर्वसत्त्वसर्वक्लेशप्रहाणाय क्षान्तिचर्या संदर्शयमानान् सर्वसत्त्वानां, विसंस्थितदुर्वर्णाश्रयशरीरतां व्यावर्तयमानान् सर्वसत्त्वानामनुत्तरां तथागतवर्णविशुद्धिं संवर्णय- 20 मानान् सत्त्वान् परिपाचयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च सर्वसत्त्वसमान्नानावर्णसंस्थानारोहपरिणाहान् नानोपपत्तिकसत्त्वकायनिर्माणमेघान्निश्चार्य यथाशयान् सत्त्वान् स्फरित्वा सर्वज्ञतामहासंभारवीर्यपराक्रमतां संदर्शयमानान् , सर्वमारकलिविकिरणवीर्यतां बोध्यारम्भाक्षोभ्याविवर्त्यवीर्यतां सर्वसत्त्वसंसारसागरोत्तारणवीर्यतां सर्वाक्षणापायदुर्गतिविनिपातपथविनिवर्तनवीर्यतामज्ञानपर्वतविकिरणवीर्य- 25 तां सर्वतथागतपूजोपस्थानापरिखेदवीर्यतां सर्वबुद्धधर्मचक्रसंप्रतीच्छनसंधारणवीर्यतां सर्वावरणपर्वतनिर्भेदनविकिरणवीर्यतां सर्वसत्त्वपरिपाकविनयापरिखेदवीर्यतां सर्वबुद्धक्षेत्रपरिशोधनवीर्यतामनुत्तरां तथागतवीर्यविशुद्धिं संदर्शयमानान् सत्त्वान् परिपाचयमानानपश्यत् ॥
सर्वरोमविवरेभ्यश्च नानावर्णसंस्थानान् विविधात्मभावनिर्माणमेघान्निश्चरित्वा नानोपायैः सत्वानां प्रीतिं संजनयमानान् , दौर्मनस्यं विनिवर्तयमानान् , सर्वकामरतिं विजुगुप्स- 30 मानान् , हीधर्मतां लोके प्रभावयमानान् , गुप्तेन्द्रियतायां सत्त्वान् प्रतिष्ठापयमानान् , अनु
१ Som. विपत्ति.