________________
8241
B98
३६ प्रमुदितनयनजगद्विरोचना। अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासन्यावेशाविष्टः कल्याणमित्रवचनप्रतिपत्तिसंभूतचित्तः कल्याणमित्रवैयेष्वातुरसंज्ञासमुदाचारचित्तः कल्याणमित्रदर्शनमनसि
काराविक्षिप्तचित्तः कल्याणमित्रदर्शनसर्वावरणपर्वतविकिरणावकाशप्रतिलब्धचित्तः कल्याण3242 5 मित्रदर्शनेन सर्वसत्त्वधातुपरित्राणमहाकरुणानयसागरावतरणप्रतिलब्धचित्तः कल्याणमित्र
दर्शनेन धर्मधातुनयसागरज्ञानावभासप्रतिलब्धचित्तो येन प्रमुदितनयनजगद्विरोचना नाम रात्रिदेवता तेनोपसंक्रान्तः ॥
अथ खलु प्रमुदितनयनजगद्विरोचना रात्रिदेवता सुधनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया कल्याणमित्रोपसंक्रमणकुशलमूलसंभारसंभवपरिपाकमुपादाय महासंभारसंभवकल्याण10 मित्रोपसंक्रमणमध्यतिष्ठत् । महाविक्रमं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् । दुरवतरणवीर्यकर्मकल्याणमित्रोपसंक्रमणमध्यतिष्ठत् । सुचिरविलग्नं कल्याणमित्रोपसंक्रमणमध्यतिष्टत् । अनन्तमध्यदिक्प्रवेशं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् । दीर्घाध्वसंवसनसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् । अनन्तकार्यसंपूर्णविज्ञप्तिसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् ।
अनन्तमध्यमार्गव्यूहसंभारक्रमणं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् । समन्तमुखविक्रमसंभवं 13 कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् । अनुच्चलनागमनविक्रमं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सर्वज्ञतासंभारवीर्यपराक्रमेण कल्याणमित्रोपसंक्रमणेन, महाप्रणिधानसागराभिनिहरिविक्रमेण कल्याणमित्रोपसंक्रमणेन, एकसत्त्वार्थमपरान्तकल्पापर्यन्तदुःखानुभवव्यवसितेन कल्याणमित्रोपसंक्रमणेन, एकपरमाणुरजसि सर्वधर्मधात्वनु
चरणविलम्बविक्रमेण महावीर्यकवचवर्मणा कल्याणमित्रोपसंक्रमणेन, सर्वदिक्समुद्रप्रसरानु20 जवनेन कल्याणमित्रोपसंक्रमणेन, एकवालपथे अपरान्तकल्पबोधिसत्त्वचर्यासंवसनेन कल्याणमित्रोपसंक्रमणेन, बोधिसत्वचर्याप्राप्तस्य प्रतिचित्तक्षणं सकलसर्वज्ञताज्ञानप्रतिष्ठानेन कल्याणमित्रोपसंक्रमणेन, त्र्यध्वप्राप्तसर्वतथागतविकुर्वितव्यूहमार्गाक्रमणव्यवसितेन कल्याणमित्रोपसंक्रमणेन, सर्वधर्मधातुनयस्रोतःप्रसृतमार्गाक्रमेण कल्याणमित्रोपसंक्रमणेन, सर्वधर्म
धातुनयारम्बणानुच्चलितेन सकलधर्मधातुस्फरणेन कल्याणमित्रोपसंक्रमणेन येन प्रमुदित25 नयनजगद्विरोचना रात्रिदेवता तेनोपसंक्रान्तः ॥
सोऽपश्यत् प्रमुदितनयनजगद्विरोचनां रात्रिदेवतां भगवतः पर्षन्मण्डले पुष्पगर्भसिंहासननिषण्णां समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वसमाधि समापन्नाम् । तस्याश्वापश्यत् सर्वरोमविवरेभ्यः सर्वसत्त्वाभिरोचनां सर्वसत्त्वाभिरुचितां सर्वसत्त्वदर्शनानुकूलां सर्वसत्त्वप्रियदर्शनविविधदानादिपारमिताचर्याभिद्योतनमेघान्निश्चरमाणन् यदुत सर्वसत्त्वयथा30 शयविज्ञप्तिसमरुतदानचर्यासंदर्शनमेघान् सर्वसत्त्वानुग्रहाविग्रहाय सर्ववस्त्वनवेक्षणतायै सर्व
सत्त्वसमप्रयोगापरित्यागितायै सर्वसत्त्वसमचित्ततायै सर्वसत्त्वाविमाननापरित्यागितायै आध्या
8243