________________
-३५.१३] ३५ समन्तगम्भीरश्रीविमलप्रभा।
१८७ सर्वलोक उदितस्तथागतः
सत्त्व सर्वि सममामुखीस्थितः । अन्यमन्य अधिमुक्तिगोचर
स्ते न शक्यमपि सर्वि जानितुम् ॥ ११ ॥ बोधिसत्त्ववर शेषशेषतो
एकरोमि सुगतस्य ओसरी । तद्विमोक्षनय ये अचिन्तिया
स्ते न शक्यमपि सर्वि जानितुम् ।। १२॥ एष देवत ममा अनन्तरं
लोकनाथभिमुखा प्रमोदते । ज्योतिरर्चिनयनेति नामतो
एत पृच्छ कथ बोधिचारिकाम् ॥ १३ ॥ अथ खलु सुधनः श्रेष्ठिदारकः समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्ध समन्तगम्भीरश्रीविमलप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवताया अन्तिकात् प्रक्रान्तः ।। ३३ ।। 15