________________
१८६
गण्डव्यूहसूत्रम् । बुद्धिया जिनु खभावधर्मतां
निःशरीर सुप्रशान्त अद्वयाम् । रूपकायु शुभलक्षणैश्चितं
दर्शयी जगु फरित्व शेषतः ॥ ४ ॥ बुद्धकायु विपुलो अचिन्तियो
धर्मधातु फरि येनशेषतो। सो च दृश्यति समन्ततः समं
सर्व दर्शयि समन्ततो जिनान् ॥५॥ सर्वक्षेत्रपरमाणुसादृशा
बुद्धकायप्रभमण्डलाश्रिताः । अन्यमन्य शुभवर्णदर्शना
धर्मधातुफरणाः प्रतिक्षणम् ॥ ६ ॥ रश्मिमेघ विपुला अचिन्तिया
निश्चरन्ति जिनरोमतोऽक्षयाः। ते स्फरित्व जग सर्वशेषतो
क्लेशताप शमयन्ति प्राणिनाम् ॥ ७ ॥ बुद्धनिर्मितसमुद्र अक्षया
निश्चरित्व जिनरोममण्डलात् । धर्मधातु विपुलं स्फरित्वना
दुर्गतीदुख शमेन्ति प्राणिनाम् ॥ ८ ॥ बुद्धघोषु मधुरो निगर्जते
सुखराङ्गरुतसागरप्रभः। धर्मवर्ष विपुल प्रवर्षणो
बोधिआशयु जनेति प्राणिनाम् ॥ ९ ॥ संगृहीत अनेन पूर्वतो
कल्पसागर चरित्व चारिकाम् । ते विपश्यिषु विरोचनं जिनं
सर्वक्षेत्रप्रतिभासलक्षणम् ॥ १० ॥