SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ -३५.३] ३५ समन्तगम्मीरश्रीविमलप्रभा। १८५ कारानन्तर्धापयामि । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय उत्पन्नानां च पापकानां संकल्पानामन्तर्धानाय प्रत्ययमुपसंहरामि । अनुत्पन्नानां कुशलमूलानां संकल्पानां पारमितासंप्रयुक्तानां चर्यासंप्रयुक्तानां सर्वज्ञताज्ञाननिर्याणप्रणिधानाभिनिरिसंप्रयुक्तानां मैत्रीनयसंप्रयुक्तानां सर्वसत्त्वमहाकरुणास्फरणसंप्रयुक्तानां विविधदिव्यमानुष्यसुखोपधानजननसंप्रयुक्तानां संकल्पानामुत्पादाय उत्पन्नानां च विविधनयप्रत्ययमुपसंहरामि । यावत्सर्व- 5 5 240 ज्ञतानुलोमिकानां सर्वसंकल्पानां प्रत्ययमुपसंहरामि ॥ एतमहं कुलपुत्र शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातानां बोधिसत्त्वानामनन्ताकारधर्मधातुज्ञानप्रतिलब्धानां सर्वकुशलमूलसंवर्धितचित्तानां सर्वतथागतज्ञानबलचित्तावभासप्रतिलब्धानां सर्वतथागतविषयसंवसितचित्तानां सर्वसंवासानावरणचित्तानां परिपूर्णसर्वज्ञताप्रणिधिचित्तानां 10 सर्वक्षेत्रसागरावतीर्णचित्तानां सर्वबुद्धसागरदर्शनप्रसृतचित्तानां सर्वतथागतधर्ममेघसंप्रतीच्छनचित्तानां सर्वाविद्यान्धकारविधमनकराणां संसाररतितृष्णाक्षयान्तकरणमार्गसर्वज्ञताभाससंजननचित्तानां चयों ज्ञातुम् , गुणान् वा वक्तुम् ॥ ___ गच्छ कुलपुत्र, इयमिहैव ममानन्तरं वैरोचनबोधिमण्डे प्रदक्षिणेन प्रमुदितनयनजगद्विरोचना नाम रात्रिदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ-कथं वोधिसत्त्वेन 15 बोधिसत्त्वकर्मसु प्रयोक्तव्यम् ॥ अथ खलु समन्तगम्भीरश्रीविमलप्रभा रात्रिदेवता तस्यां वेलायामेतमेव शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत सर्वअध्वपरमास्तथागता आमुखाय अधिमुक्तिचेतसः । तेषु चक्षु विपुलं विशुध्यते येन ओतरिषु बुद्धसागरान् ॥ १॥ पश्यही जिनशरीरु निर्मलं लक्षणेहि समलंकृतं शुभम् । तच्च पश्यहि जिने विकुर्वितं धर्मधातुफरणं प्रतिक्षणम् ॥ २ ॥ एष बोधिद्रुमबुद्धआसने संप्रबुद्ध सुगतो विरोचनो। धर्मधातु विपुलं स्फरित्वना चक्रु वर्तयि जगे यथाशयम् ॥ ३ ॥ १ B. om. चर्यासंप्रयुक्ताना. गण्ड.२४
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy