SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८४ गण्डव्यूहसूत्रम् । [३५.०खभावासंभूतत्वात् । अनुत्पन्ना हि ते तथागताः, अनुत्पादधर्मतासमशरीरत्वात् । अनिरुद्धा हि ते तथागताः, अनुत्पादलक्षणत्वात् । असत्या हि ते तथागताः, मायागतधर्मदर्शनविज्ञप्त्या । अमृषा हि ते तथागताः, सर्वजगदर्थसमुत्पन्नत्वात् । असंक्रान्ता हि ते तथागताः, च्युत्युपपत्तिव्यतिवृत्तत्वात् । अविनष्टा हि ते तथागताः, धर्मप्रकृत्यविनाशधर्मतया । एकलक्षणा 5 हि ते तथागताः, सर्ववाक्पथसमतिक्रान्तत्वात् । अलक्षणा हि ते तथागताः, धर्मलक्षणखभावपर्यवसानत्वात् ॥ सा खलु पुनरहं कुलपुत्र एवं सर्वतथागतानवतरमाणा एतं शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं तथागतध्यानमण्डलावभासेन विपुलीकरोमि, प्रविस्तरामि अवतरामि अनुगच्छामि समीकरोमि अभिनिहरामि समतलीकरोमि प्रवेशयामि विवर्धयामि निध्यायामि 10 उपनिध्यायामि आकारयामि गोचरीकरोमि दृढीकरोमि अवभासयामि प्रभासयामि व्यूहयामि विभजामि संभारयामि संभावयामि। तत्र च सर्वसंकल्पासमुदाचारायां महाकरुणायां स्थित्वा सर्वसत्त्वपरित्राणसमुदाचारचित्तैकाग्रतायै प्रथमं ध्यानं भावयामि सर्वमनस्कर्मव्युपशमाय ज्ञानबलपराक्रमसर्वसत्त्वसंग्रहप्रीतिसुखचित्तैकाग्रतायै । द्वितीयध्यानं भावयामि संसारविपन्नोपेक्षासर्व सत्त्वस्वभावविशुद्ध्यायतनतायै । तृतीयं ध्यानं भावयामि सर्वसत्त्वक्लेशदुःखसंतापप्रशमनतायै । 8 230 * 15 चतुर्थं ध्यानं भावयामि सर्वज्ञताप्रणिधिमण्डलविपुलीकरणतायै सर्वसमाधिसागराभिनिर्हार कौशल्यतायै सर्वबोधिसत्त्वविमोक्षसागरनयावतरणतायै सर्वबोधिसत्त्वविक्रीडितज्ञानाभिज्ञतायै सर्वबोधिसत्त्वचर्याविकुर्विताभिनिहरणतायै समन्तमुखधर्मधातुप्रवेशज्ञाननयं परिशोधयमाना। एवं शान्तध्यानमुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं भावयामि ॥ सा खल पुनरहं कुलपुत्र एतं विमोक्षं भावयमाना नानोपायैः सत्त्वान् परिपाचयामि20 यदुत रात्र्यां प्रशान्तायां रतिप्रमत्तानां सत्त्वानामशुभसंज्ञां संजनयामि । अरतिसंज्ञां परि खेदसंज्ञामुपरोधसंज्ञां बन्धनसंज्ञां राक्षसीसंज्ञामनित्यसंज्ञां दुःखसंज्ञामनात्मसंज्ञामखामिकसंज्ञामपराधीनसंज्ञां जरामरणसंज्ञाम् । सर्वकामविषयपरिभोगेष्वनभिरतिसंज्ञां संजनयामि । ते च सत्त्वास्तच्चित्तं परिभावयन्तः सर्वकामरतिष्वनभिरता धर्मारामरतिं प्रवारयमाणा अगारादनागारिकं निष्क्रामन्ति । तेषामहमरण्यगतानां धर्मेष्वानुलोमिकी श्रद्धां जनयामि । आर्त25 भीषणोदारस्वररवशब्दानन्तर्धापयामि । रात्र्यां प्रशान्तायां बुद्धधर्मगम्भीरतां संदर्शयामि । प्रहाणानुकूलं च प्रत्ययमुपसंहरामि । निष्क्रमतां च अगारद्वारं विवृणोमि । मार्ग संदर्शयामि । आलोकं करोमि । तमोन्धकारं विधमामि । भयमन्तर्धापयामि । नैष्कम्यं संवर्णयामि । बुद्धवर्ण भाषयामि । धर्मवर्ण संघवर्ण कल्याणमित्रवर्णं भाषामि । कल्याणमित्रोपसंक्रमणं संवर्णयामि ॥ 30 एतमहं कुलपुत्र विमोक्षं भावयमाना सत्त्वानामधर्मरागरक्तानामधर्मरागसंकल्पानन्त र्धापयामि । विषमलोभाभिभूतानां मिथ्यासंकल्पगोचराणां तान् संकल्पांस्तान् मनसि B97 son S.om. भयमन्तर्धापयामि,
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy