________________
३५ समन्तगम्भीरश्रीविमलप्रभा। अथ खलु सुधनः श्रेष्ठिदारको वासन्त्या रात्रिदेवतायाः प्रथमस्थानबोधिसत्त्वचित्तमण्डलपरिशुद्धिमनुगच्छन् , बोधिगर्भसंभवमनुविचारयन् , बोधिसत्त्वप्रणिधानसागरमवतरन् , बोधिसत्त्वपारमितामार्ग परिशोधयन् , बोधिसत्त्वभूमिमण्डलमवक्रामयन् , बोधिसत्त्वचर्यामण्डलं प्रविस्तरन् , बोधिसत्त्वनिर्याणसागरमनुस्मरन् , सर्वज्ञतावभासमहासागरमनुविलोकयन् , 58237 सर्वजगत्परित्राणप्रवणबोधिसत्त्वमहाकरुणामेघं विपुलीकुर्वन् , वासन्या रात्रिदेवतायाः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानमण्डलं सर्वक्षेत्रेष्वपरान्ताधिष्ठानमभिनिर्हरन् , येन समन्तगम्भीरश्रीविमलप्रभा नाम रात्रिदेवता, तेनोपसंक्रम्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः B90 पादौ शिरसाभिवन्ध समन्तगम्भीरश्रीविमलप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया 10 आर्य देवते, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वो बोधिसत्त्वचर्याभूमौ चरति, कथं निर्याति, कथं परिनिष्पद्यते ? आह- साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संवोधौ चित्तमुत्पाद्य बोधिसत्त्वभूमिनिर्याणपरिनिष्पत्तिं पृच्छसि । दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्त्वाः परिनिष्पन्ना भवन्ति बोधिसत्त्वचर्यायाम् । कतमैर्दशभिः ? यदुत सर्वतथागतसंमुखीभावदर्शनसमाधिप्रतिलम्भविशुद्धया, सर्वबुद्धलक्षण-15 विचित्रतानन्तकायव्यवलोकनचक्षुर्विशुद्धया, अनन्तमध्यतथागतवर्णसमुद्रविज्ञप्त्यवतारेण, अप्रमाणबुद्धधर्मावभासमण्डलसमुद्रसर्वधर्मधातुप्रमाणावतरणतया, सर्वतथागतरोमविवरसर्वसत्त्वोपमरश्मिसमुद्रनानासत्त्वार्थनिश्चरितावतरणतया, एकैकरोमविवरसर्वरत्नवार्चिःसमुद्रदर्शनतया, प्रतिचित्तक्षणं बुद्धनिर्मितसमुद्रसर्वधर्मधातुप्रसरस्फरणसत्त्वविनयाधिष्ठानावतरणतया, सर्वसत्त्वखराङ्गसमुद्रसंप्रयुक्ततथागतनिर्घोषसर्वत्र्यध्वगतधर्मचक्रनिर्नादनिर्घोषसर्व-20 सूत्रान्तमेघनिगर्जितनि?षमण्डलावतरणतया, अनन्तमध्यबुद्धनामसमुद्रावतरणतया,अचिन्त्यबुद्धविकुर्वितसंदर्शनसत्त्वविनयावरणतया । एभिः कुलपुत्र दशभिर्धर्मः समन्वागता बोधि. सत्त्वाः परिनिष्पन्ना भवन्ति बोधिसत्त्वचर्यायाम् ॥ ___अहं खलु कुलपुत्र शान्तध्यानसुखसमन्तविक्रमस्य बोधिसत्त्वविमोक्षस्य लाभिनी । तस्या मम कुलपुत्र त्र्यध्वप्राप्ताः सर्वतथागताश्चक्षुष आभासमागच्छन्ति । तेषां च तथा- 25 DAR गतानां बुद्धक्षेत्रपरिशुद्धिमवतरामि । पर्षन्मण्डलसमुद्रानपि, अनन्तमध्यसमाधिविकुर्वितसमुद्रानपि, पूर्वयोगसमुद्रानपि, नामसमुद्रानप्यवतरामि । तेषां च तथागतानां धर्मचक्रप्रवर्तनविमात्रतामवतरामि । तथागतायुष्प्रमाणनानात्वमपि, खराङ्गविमानतामपि । तेषां च तथागतानामनन्तधर्मधातुशरीरतामवतरामि । न च तांस्तथागतान् भावतोऽभिनिविशामि । तत्कस्य हेतोः? अगतिका हि ते तथागताः, सर्वलोकगतिनिरुद्धत्वात् । अनागतिका हि ते तथागताः, 30
1 Bom, कथं निर्याति.