________________
B101
8250
-३६.०] ३६ प्रमुदितनयनजगद्विरोचना। पाचयमानानपश्यत् । एवं बृहत्फलपुण्यप्रसवानभ्रकदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । शुभकृत्स्नाप्रमाणशुभपरीत्तशुभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । आभाखराप्रमाणाभपरीत्ताभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । महाब्रह्मब्रह्मपुरोहितब्रह्मपार्षददेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रवशवर्तिदेवराजसदृशात्मभावमेघनिश्चरितान् । सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रसुनिर्मितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रसंतुपितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रसुयामदेवराजसहशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । साप्सरोगणसदेवपुत्रशक्रदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। धृतराष्ट्रगन्धर्वराजगन्धर्वपुत्र- 10 गन्धर्वकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । विरूढककुम्भाण्डराजकुम्भाण्डपुत्रकुम्भाण्डकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत्। विरूपाक्षनागराजनागपुत्रनागकन्यासदशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । वैश्रवणमहायक्षराजयक्षपुत्रयक्षकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । द्रुमकिन्नरराजकिन्नरपुत्रकिन्नरकन्यासदृशात्मभावमेघनिश्चरितान् 15 सत्त्वान् परिपाचयमानानपश्यत् । सुमतिमहोरगेन्द्रमहोरगपुत्रमहोरगकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । महाबलवेगस्थामगरुडेन्द्रगरुडपुत्रगरुडकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । रावसुरेन्द्रासुरपुत्रासुरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । यमधर्मराजयमपुत्रयमकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सर्वमनुष्येन्द्र- 20 नरनारीदारकदारिकासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । एवं सर्वगतिपर्यापनसर्वसत्त्वसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सर्वश्रावकप्रत्येकबुद्धर्षिसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । वाय्वप्तेजःस्कन्धदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । सागरनदीपर्वतवनस्पत्यौषधिवृक्षपृथिवीदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । 25 उद्याननगरबोधिमण्डरात्रिदिवसगगनदिक्पादगामिनीशरीरकायिकदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् । एवं यावद्वज्रपाणिसदृशात्मभावमेघनिश्चरितान् दश दिशः स्फरित्वा धर्मधातुनयप्रसरेषु सर्वसत्त्वसंमुखीभावस्थितान् सत्त्वान् परिपाचयमानानपश्यत् ॥
ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभारमुखाः पूर्व- 30 जन्मसमुदागतकुशलचित्तपरंपराव्यवच्छेदनयाः, यानि च बोधिचित्तोत्पादप्रशंसापरंपरानन्त
१B परिदीपयमानान्.
गण्ड, २५