SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १८० B95 5235 गण्डव्यहमृतम्। [३४.२२च तेषु लोकधातुषु तथागताः, ते सर्वे मम चक्षुप आभासमागच्छन्ति । तेषां च पादमूलगतमात्मानं संजानामि । ये च तेषु लोकधातुपु सत्त्वा उपपन्नाः, तेऽपि सर्वे मम चक्षुष आभासमागच्छन्ति । तेषां च रुतविमात्रतासंकेतं प्रजानामि । चित्ताशयेन्द्रियाधिमुक्तीश्च प्रजानामि । पूर्वान्तकल्याणमित्रेषु च परिपाकं प्रजानामि । यथाशयसंलोषणं चैपां काय5 मादर्शयामि ॥ __ स च मे विमोक्षः प्रतिचित्तक्षणं विवर्धते । तद्विमोक्षचित्तानन्तरेण चित्तेन लोवाधातुशतपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि । तदनन्तरेण चित्तेन लोकधातुसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि । तदनन्तरेण चित्तेन लोकधातुशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि । एवं प्रतिचित्तक्षणं 10 यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि । ये च तेषु बुद्धक्षेत्रेषु तथागताः, सर्वे ते मम चक्षुष आभासमागच्छन्ति । तेषां च पादमूलगतमात्मानं संजानामि । या च तेषां बुद्धानां भगवतां धर्मदेशना, तां सीमुद्गलामि, धारयामि संप्रधारयामि उपधारयामि । तेषां च तथागतानां पूर्वयोगसमुदान प्रणिधानसमुद्रानवतरामि । या च तेषां तथागतानां बुद्धक्षेत्रपरिशुद्धिः, तामपि च सर्वां बुद्धक्षेत्र15 परिशुद्धयेऽभिनिहरामि । ये च सत्त्वास्तेषु लोकधातुसमुद्रपूपपन्नाः, तेऽपि सर्वे मम चक्षुष आभासमागच्छन्ति । यत्प्रमाणाश्च तेषां सत्त्वानामाशयेन्द्रियाधिमुक्तिभेदाः, तत्प्रमाणभेदं कायमधितिष्ठामि यदुत एपां परिपाकविनयमुपादाय । एवं प्रतिचित्तक्षणमेष विमोक्षो विवर्धते धर्मधातुप्रसरस्फरणविवर्धनयोगेन । एतमहं कुलपुत्र सर्वसत्त्वतमोविकिरणधर्मावभास जगद्विनयमुखं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यमनन्तमध्यसमन्तभद्रबोधिसत्त्व20 चर्याप्रणिधिनिर्यातानां बोधिसत्त्वानां धर्मधातुसागरनयप्रसरप्रवेशवशवर्तिनां सर्वबोधिसत्त्वसमुदागमज्ञानवज्रकेतुसमाधिविक्रीडितानां सर्वलोकधातुषु सर्वतथागतवंशसंधारणमहाप्रणिधाननिर्यातानां सर्वलोकधातुप्रसरचित्तक्षणपरिशोधनमहापुण्यसागरपरिनिष्पन्नामा प्रतिचित्तक्षणं सर्वधर्मधातुपरिपाकविनयज्ञानवशवर्तिनां सर्वलोकधातुषु सर्वसत्त्वसर्वावरणमहान्ध कारविधमनज्ञानादित्यचक्षुषां सर्वसत्त्वधातुमहायानविज्ञपनविक्रमाणां सर्वजगत्काङ्क्षाविमति25 विचिकित्सातिमिरविधमनमतिचन्द्राणां सर्वभवसमुद्राभिनिवेशोच्चलनविशुद्धघोषखरमण्डलानां सर्वधर्मधातुरजःपथि विकुर्वितसंदर्शनवशवर्तिनां त्र्यध्वतलज्ञानमण्डलासंभिन्नानां चयां ज्ञातुम् , गुणान् वा वक्तुम्, गोचरो वा अवतर्तुम् , विमोक्षविक्रीडितं वा संदर्शयितुम् ॥ गच्छ कुलपुत्र, इयमिहैव मगधविषये बोधिमण्डे समन्तगम्भीरश्रीविमलप्रभा नाम रात्रिदेवता प्रतिवसति, यया अहमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता, पुनः पुनश्च 30 संचोदिता । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ अथ खलु सुघनः श्रेष्ठिदारको वासन्ती रात्रिदेवतामाभिगार्थाभिरभ्यष्टौषीत्
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy