________________
१७९
8233
-३४.२१]
२४ तासन्ती। यामास । सा खलु पुनः कुलपुत्र राजमार्ग तथागतप्रभावभासिताच्याशयेनानुत्तरां सम्यक्संबोधिमभिसंप्रस्थिता । तस्य तथागतस्य सबोधिसत्त्वश्रावकसंघस्य महान्तं पूजासत्कारमकार्षीत् । तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन धर्ममतिचन्द्रा नाम । राजभार्या अभूत् ? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन धर्मगतिचन्द्रा नाम राजभार्या अभूवम् ॥
सा अहं कुलपुत्र तेनाभिलापिकेण चित्तोत्पादेन तेन च तथागतावरोपितेन कुशलमूलेन सुमेरुपरमाणुरजःसमैः कल्पैर्न जातु दुर्गतिधूपपन्ना । न नरके, न तिर्यग्योनौ प्रेतेषु वा, न जातु हीनकुलेघूपपन्ना । न जात्विन्द्रियविकलाभूवम् । न जातु दुःखिताभूवम् । सदा अहं देवेषु देवमाहात्म्यं प्रतिलभ्य मनुष्येषु च मनुष्यमाहात्म्यं न जातु कल्याणमित्रविरहिता अभूवं यदुत वुद्धबोधिसत्त्वैः । न जातु विषमेपु कालेपूपपन्ना । 10 सा खल्वहं कुलपुत्र वुद्धानुबुद्धेषु कुशलमूलान्यवरोपयमाणा सुमेरुपरमाणुरजःसमान् कल्पान् सुखेन शमेन क्षेमेण मार्गेण आगता । न च तावन्मे बोधिसत्त्वेन्द्रियाणि परिनिष्पन्नानि ॥
___ तेषां सुमेरुपरमाणुरजःसमानां कल्पानामतिक्रान्तानामितो भद्रकल्पात्पूर्व दशानां कल्पसहस्राणां प्रथमस्तेन कालेन अशोकविरजो नाम कल्पोऽभूत् रजोविमलतेजःश्रीनाम्नि लोकधातौ । स खलु पुनः कुलपुत्र रजोविमलतेजःश्रीर्लोकधातुः क्लिष्टविशुद्धोऽभूत् 15 पञ्चबुद्धोत्पादशतप्रभवः । तेषां खलु पुनः पञ्चानां बुद्धशतानां प्रथमः सुमेरुध्वजायतनशान्तनेत्रश्रीर्नाम तथागतो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान् । अहं च प्रज्ञावभासश्री म श्रेष्ठिदारिका अभूवं विघुष्टकीर्तेः श्रेष्टिनो दुहिता अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता । सा च सुविशुद्धचन्द्रामा रात्रिदेवता प्रणिधानवशेन विरजोवत्यां 20 चातुर्कीपिकायां लोकधातौ विचित्रध्वजायां राजधान्यां विशुद्धनेत्रामा नाम रात्रिदेवता अभूत् । तया मे रात्र्यां प्रशान्तायां शयितयोर्मातापित्रोस्तद्गृहं कम्पयित्वा उदारेणावभासेन खरूपं संदर्य बुद्धगुणवर्णं भाषित्वा स तथागतः प्रथमसप्ताहाभिसंबुद्धो बोधिमण्डनिषण्णः संदर्शितः । सा अहं साधु मातापितृभ्यां महता च ज्ञातिसंघेन तां सुविशुद्धचन्द्राभां रात्रिदेवतां पुरस्कृत्य तस्य तथागतस्यान्तिकमुपसंक्रान्ता । ततो मया तस्य तथागतस्य उदारां 25 पूजां कृत्वा सहदर्शनेन जगद्विनयबुद्धदर्शनप्रभवो नाम समाधिः प्रतिलब्धः । त्र्यध्वतलज्ञानावभासमण्डलश्च नाम समाधिः प्रतिलब्धः, यस्य प्रतिलम्भान्मया ते सुमेरुपरमाणुरज:समाः कल्पा अनुस्मृताः। तच्च मे बोधिचित्तमामुखीभूतम् । तया मे तस्य तथागतस्यान्तिकाद्धर्मदेशनां श्रुत्वा एष सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य प्रतिलम्भाद्दशबुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातून् कायेन स्फरामि । ये 30
8234
१ B विचित्रनेत्राभा,