________________
8232
गण्डव्यूहसूत्रम् ।
[३४.१९बुद्धसमुद्र अहं अवतीर्णा
सर्वि त्रियवि नयोत्तरमाना । तेषु च ओतरमी प्रणिधानं
एप नयो अतुल: सुसमाप्तः ॥ १९॥ सर्वरजे अहु क्षेत्रसमुद्रान्
पश्यमि चैव त्रियध्वप्रवेशान् । तत्र च पश्यमि बुद्धसमुद्रा
तेप समन्ततलं नयभूमिम् ॥ २० ॥ पश्य विरोचन बोधिविबुद्धं
सर्वदिशासु स्फरित्वन क्षेत्रा । सर्वरजःपथि वोधिद्रुमेन्द्र
सान्तिम धर्म निसर्जयमानम् ॥ २१ ॥ अथ खल्लु सुधनः श्रेष्ठिदारको वासन्ती रात्रिदेवतामेतदवोचत्–कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संवोधौ ? कियच्चिरं प्रतिलब्धश्च तेऽयं विमोक्षः, यस्य प्रति16 लम्भात्त्वमेवंरूपया सत्त्वार्थक्रियया प्रत्युपस्थिता ? एवमुक्ते वासन्ती रात्रिदेवता सुधनं श्रेष्ठिदारकमेवमाह-भूतपूर्व जिनपुत्र अतीतेऽध्वनि सुमेरुपरमाणुरजःसमानां कल्पानां परेण प्रशान्तप्रभो नाम कल्पोऽभूत्पञ्चबुद्धकोटीशतप्रभवः । तत्र रत्नश्रीसंभवा नाम लोकधातुरभूत् । तस्यां खलु पुनर्लोकधातौ रत्नचन्द्रप्रदीपप्रभा नाम मध्यमा चातुर्दीपिका । तस्यां पद्मप्रभा नाम राजधानी । तत्र राजधान्यां सुधर्मतीर्थो नाम राजाभूत् धार्मिको धर्मराजा 20 चक्रवर्ती चतुर्तीपेश्वरः सप्तरत्नसमन्वागतः । स तामकण्टका महापृथिवीं ससागरगिरिपर्यन्तां धर्मेणाभिनिर्जिल्य अध्यावसति स्म ।
तस्य सुधर्मतीर्थस्य राज्ञो धर्ममतिचन्द्रा नाम भार्याभूत् । सा रात्र्याः पूर्वे यामे मदनमत्ता रतिक्रीडापरिश्रान्ता मध्यमे यामेऽन्तःपुरमध्यगता प्रसुप्ता । अथ तस्याः पद्मप्रभाया राजधान्याः पूर्वेण शमथश्रीसंभवे महावनपण्डे सर्वधर्मनिगर्जितराजो नाम 26 तथागतः सर्वव्यूहप्रभामणिराजशरीरे सर्ववुद्धविकुर्वितप्रभवे महाबोधिवृक्षेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । तेनासौ सर्वो रत्नश्रीसंभवो लोकधातुरनेकवर्णया उदारया प्रभया स्फुटावभासितोऽभूत् । तस्यां च पद्मप्रभायां राजधान्यां सुविशुद्धचन्द्राभा नाम रात्रिदेवता अभूत् । सा तां धर्ममतिचन्द्रां राजभार्यामुपसंक्रम्य आभरणसंघटनशब्देन
प्रबोध्य एवमाह-यत्खलु राजपलि जानीयाः-शमथश्रीसंभवे महावनषण्डे सर्वधर्म30 निगर्जितराजो नाम तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । सा तस्या राजभार्यायाः
पुरतो विस्तरेण बुद्धगुणवणं बुद्धविकुर्वितं समन्तभद्रबोधिसत्त्वचर्याप्रणिधानं च संप्रकाश