________________
la
--३४.१८]
३४ वासन्ती। सर्वविमोक्षविहारप्रवेशं
ओतर एत नयं जिनपुत्र ॥ ११ ॥ जिह्व ममा विपुल सुप्रभूता
ताम्रतनू रतनाभ विशुद्धा । याय ज्ञपेमि यथाशय सत्त्वान्
ओतर एत नयं जिनपुत्र ॥ १२ ॥ धर्मशरीरु ममातिविशुद्धं
सर्वत्रियध्वसमन्तस्थितानाम् । रूपशरीरु यथाशय सत्त्वाः
पश्यिषु तेष्वधिमुक्तिबलेन ॥ १३ ॥ चित्तमसङ्गमनास्रव मह्यं
घोषरुतं यथ मेघनिनादः। तत्र समोसरि सर्वनरेन्द्रान्
नो च विकल्पन विद्यति मह्यम् ॥ १४ ॥ क्षेत्रतलेषु अचिन्तिय सस्वाः
तेष प्रजानमि चित्तसमुद्रान् । इन्द्रियआशय जानमि तेषां
नो च विकल्पन विद्यति मह्यम् ॥ १५ ॥ ऋद्धि ममो विपुला सुसमाप्ता ___ कम्पयि क्षेत्र अचिन्तियाय । कायप्रभाय प्रभावतु येनो
सर्व सुदुर्दम सत्त्व दमेमि ॥ १६ ॥ पुण्य ममो विपुलं परिशुद्धं ___ अक्षयकोष समन्तवियूहम् । येन प्रवर्तयि पूज जिनानां
भोति च सर्वजगत्युपजीव्यम् ॥ १७ ॥ प्रज्ञ ममो विपुला सुविशुद्धा ___ याय प्रजानमि धर्मसमुद्रान् । संशय छिन्दमि सर्वजनानां
ओतर एत नय जिनपुत्र ॥ १८॥ गण्ड, २३
15
25