________________
३४ वासन्ती।
१८१
8236
15
पश्यमि कायु तवाद्य विशुद्धं
लक्षणचित्रितु मेरु यथैव । लोकअभ्युद्गत लोकविभासि
म शिरी यथ रूपशिरीये ॥ २२ ॥ धर्मशरीरु तवातिविशुद्धं
सर्वत्रियध्वसमं अविकल्पम् । यत्र समोसरि लोक अशेषः
संभवतेऽथ विभोति असङ्गम् ।। २३ ।। पश्यमि सर्वगतिप्रसरेषु
कायु तव प्रतिभासविभक्तम् । रोममुखेषु च पश्यमि तुभ्यं
तारकसंघ सज्योतिषचन्द्रान् ॥ २४ ॥ चित्तु तवा विपुलं सुविशुद्धं
येन स्फुटं गगनं व दिशासु । यत्र समोसरि सर्वनरेन्द्रा
ज्ञानमकल्पमलं वरु तुभ्यम् ॥ २५ ॥ क्षेत्ररजोपम मेघ विचित्रा
निश्चरिषू तव रोममुखेषु । ते च फरन्ति दशदिशि बुद्धान्
सर्ववियूह प्रवर्षयमाणाः ॥ २६ ॥ सर्वजगोपम काय अनन्ता
निश्चरिषू तव रोममुखेषु । ते च दशद्दिशि लोकु फरित्वा
नानउपाय विशोधयि सत्त्वान् ॥ २७ ॥ रोममुखेषु अचिन्तिय क्षेत्रा
पश्यमि नानवियूहविचित्र। ये त्वय शोधित सत्त्वगतीषु
तेष यथाशयसंभुत सर्वान् ॥ २८॥ लाभ सुलब्ध सुजीवितु तेषां
ये तव नाम शृणोन्ति उदग्राः।